SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 60 अनुसन्धान ३३ 'सर्वस्य द्वे सुमतिकुमती सम्पदापत्तिहेतोवृद्धो यूना सह परिचयात् त्यज्यते कामिनीभिः । एको गोत्रे स भवति पुमान् यः कुटुम्बं बिभर्ति स्त्री पुम्वच्च प्रभवति यदा तस्य गेहं विनष्टम् ॥७॥ अथ पादत्रयरूपारामं लक्ष(क्ष्म)मपूर्वजं रघुवरं सीतापति सुन्दरं नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नाऽऽलिङ्गितम् । वातघ्नं कफनाशनं कृमिहरं दुर्गन्धनिर्नाशनं · ताम्बूलं न तु येन लक्षितमसौ वातात्मजो दृष्टवान् ॥१॥ असंभृतं मण्डनमङ्गयष्टे रनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं सरस्वती श्रीर्ललना नवीना ॥२॥ अथ श्लैषा(श्लेषाः) घनबालमनोहारि सुमनोभिनिषेवितम् । बहुधा तु लसत्कान्ति पुस्तकं मस्तकायते ॥१॥ उन्मीलत्तिलकं काऽपि (क्वाऽपि) क्वचित् प्रस्फुरितालकम् । क्वचित् पत्रावलीकीर्ण(ण) स्त्रीमुखं पर्वतोपमम् ॥२॥ . गोलब्धजन्मा मधुरः शिखिप्रीतिविवर्द्धनः । उन्मीलदर्जुनच्छायो नवनीतायते गिरिः ॥३॥ कलानिधिकरस्पर्शात् प्रसन्नोल्लासितारका । बिभ्राणाम्बरमानीलं कामिनी यामिनीयते ॥४॥ १. सर्वस्य द्वे सुमतिकुमती सम्पदापत्तिहेत, एको गोत्रे प्रभवति पुमान् यः कुटुम्बं बिभर्ति । वृद्धो यूना सह परिचयात् त्यज्यते कामिनीभिः, स्त्रीपुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम् ॥ इति चत्वारि पाणिनेः सूत्राणि समस्या-इति सु.र.भा. ॥ २. बाल्यात् परं साधु वयः प्रपेदे - इति सु.र.भा. || ३. २५५/२० सु.र.भा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy