SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 58 अनुसन्धान ३३ 'शिरसि देवनदी पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका । निबिडमानवती रमणाङ्गके क्वचन चुम्बनमारभते स्म सा ॥५॥ क्रोधातिशयेन सविषो गलश्चुम्बित इति भावः ॥५॥ ........ नागराज भवति प्रत्यर्थिविध्वंसनव्यापारे क(कृ)तनिश्चये सति सतां दारिद्यविध्वंसके । तत्कान्ता क्षितिधृत्तटीषु मणिभिर्नीलैः सुरम्यास्वहो कोकान् षट्पदमालिकाश्च कमलान्यालोकयन्त्यद्भुतम् ॥६॥ स्तनात्मकमुखप्रतिबिम्बावलोकनात् यद्वा नीलमणिजनितान्धकारे दिनज्ञानाय कोकसंयोगं षड्पदप्रचारं कमलविकाशं च विलोकयन्तीति भावः ॥६॥ दृष्टोऽयं सरिताम्पति: प्रियतमे बद्धोऽत्र सेतुर्मया कान्त(न्ता)क्वेति मुहुर्मुहुः सकुतुकं पृष्टे परं विस्मिते । अत्राऽऽसीदयमत्र नाऽत्र किमिति व्यग्रे निजप्रेयसि व्यावृत्त्याऽऽस्यसुधानिधि समभवन्मन्दस्मिता जानकी ॥७॥ स्वमुखचन्द्रदर्शनाभितजलधिकल्लोलाच्छादितस्य सेतोः प्रकटनाय क(?)मुखवव्यावृत्तिरिति भावः ॥७॥ समुद्धतानां दनुजेश्वराणां विमर्दने यस्य चकास्ति धैर्यम् । स श्रीपतिः किं निजनामधेयं पटुर्जपद्भ्यो नितरां बिभेति ॥८॥ वैकुण्ठे सम्मर्दो भविष्यतीत्याशयेनेति भावः ॥८॥ अन्योन्यं भुजगवराः शङ्करसर्वाङ्गभूषणीभूताः । पश्यन्तो वदनानि प्रायः कम्पं भजन्ति को हेतुः ॥९॥ नीलकण्ठं विलोक्य केनाऽयं दंशापराधः कृत इति ॥९॥ १. १९०/७५ सु.र.भा. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy