________________
September-2005
55
अथ हीयमानाक्षरम्
नतनाकिमौलिमणिमण्डलीविभा
__ भरभासुराङ्घिसरसीरुहासना । तव शर्मणे भवतु भारती भृशं
दृढजाड्यखण्डनदिनेशभाततिः ॥२०-१॥ अत्र मञ्जुभाषिणि(णी) छन्दसि प्रतिपामा(दा)द्याक्षरद्वयपातेन रथोद्धतावृत्तम्, अन्त्याक्षरद्वयपातेन नन्दिनीवृत्तम् ॥२०-१॥
गङ्गोपलक्षित उमाहृदयाम्बुजार्को
नित्यं विभाति शशिखण्डशिरोविभूषः । देवस्तु यो विषमनेत्रलसन्मुखश्री:
कल्याणदो भवतु वः सहतादिवर्णः ॥२०-२॥ अथाऽपहुतिः -
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिक: किं मिलतो नहि न हि सखि ! हैमनः पवनः ॥२१-१॥१ इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
स्मरसि किं सखि ! कान्तरतोत्सवं नहि घनागमरीतिरुदाहता ॥२१-२॥ अथ कथिताऽपह्नुतिः
आदौ श्लोकेऽत्र निर्दिष्टं विजानन्तु महाधियः ।
कस्मात् कस्मिन् समुत्पन्ने सरागं भुवनत्रयम् ॥२२-१॥ आत्-कृष्णात्, औ-कामे ॥२२-१॥
पृथ्वीसंबोधनं कीदृक् कविना परिकीर्तितम् ।
केनेदं मोहितं विश्वं प्रायः केनाऽऽप्यते यशः ॥२२-२॥ १. १८६/३ सु.र.भा. । २. १८६/१३ सु.र.भा. ।। ३. 'कविना' =हे को ! हे पृथ्वि !, इना कामेन, कविना काव्यकर्ता - इति उत्तरः ।
सु.र.भा. ॥ ४. १९६/६ सु.र.भा. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org