________________
36
अनुसन्धान ३३
स्वस्सत्पुरीयं परमर्द्धिपूर्णा नित्यं निरालम्बतयेव खिन्ना । पयोनिधे: सनिधिमेत्य मन्ये स्थिता यतोऽस्यां विबुधा वसन्ति ॥६३|| वादेन भग्ना जलधौ निमग्ना लङ्काऽथ तां जेतुमनाः पुरीयम् । पटालयान् श्रृङ्खलकोष्ठकस्य च्छलादिवाऽदापयदब्धितीरे ॥६४॥ रत्नाकरोऽब्धिर्जनसन्निवेशो द्वीपोऽप्ययं तन्मिलनाय पूर्वम् । प्रसारयामास भुजं स एव बिभर्ति शोभा परिखाऽब्धिदम्भात् ॥६५॥ द्वीपेन सार्द्ध नगरी गरीयः श्रिया विवाद सृजती सुराणाम् । नंष्ट्वा ययौ क्वापि नभःप्रदेशे तदन्तरीयं परिखा पयोधिः ॥६६॥ देशा नरेशा इव यनिदेशा-नुवर्तिनः पोतमिषात् करीन्द्रान् । उपाहरन्ते पुरचक्रभर्तु-र्दी - - - पूज्यांहिकिरीटमौलैः ॥६७॥ यत्राङ्गनाश्च(च?)ङ्गिमसङ्गमेन पराजितां वीक्ष्य सुतां पयोधिः । तद्रूपसम्पत्तिषु मन्दमोह - - - कृष्णाय दत्त(ते)स्म जरनराय ||६८॥ द्वाषस्सवषु वरा (द्वीपः स सर्वेषु वरो)ऽस्ति जम्बू-द्वीपो यथाऽन्दुकृतप्रकाशः । द्वीपस्तथा सर्वपुरावनीपौरामेय-वामेयजिनाप्तवासः ॥६९॥ पयोनिधिस्तुङ्गतरङ्गहस्तै-य॑त्सालमुत्सारयितुं प्रवृत्तः । वेलाबलेनाप्यफलप्रयत्नो, लज्जावनम्रोऽथ निवर्तते द्राक् ॥७०॥ यद्वासिहारिव्यवहारिलोकै- स्वत्रिपद्याश्रयणात् सदङ्गैः । पराजिताः सन्ततदानवृत्त्या मतङ्गजा तन्न विशन्ति मन्ये ॥७१॥ विद्याविनोदैः समयं नयन्तः श्रीमद्गुरोः सेवनंया(नमा)श्रयन्तः । साभोगभोगैर्नितमार्जयन्त: सुखं वसन्ति व्यवहारवन्तः ॥७२॥ विचारचातुर्यदशां(शा)दशां(शा)स्या-दानप्रवाहैर्विहिताब्दहास्याः । श्रीपूज्यतीव्रद्युतिपाददास्या-न्नित्यं प्रसन्नीभवदम्बुजास्याः ॥७३|| गीतार्थसार्थस्य गुणैर्मणीभिः कण्ठस्य येषां प्रभवेद् विभूषा । ते कस्य न स - - नोपकार- संस्कारिणः श्राद्धवराः सुखाय ॥७४|| तदीयचातुर्यमरालबालो-ऽस्माकं मनोम्भोरुहि यच्चिखेल । तत्पक्षशुभ्रत्वगुणप्रसङ्गात् वलक्षताऽद्यापि च लभ्यतेऽत्र ॥७५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org