SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 84 अनुसन्धान ३२ धत्ते इति डप्रत्यये अधः । पुनः किंवि०? 'डलयोरैक्यात्' ल-इन्द्रः, तस्य स्त्री ली, तां वाति-गच्छति ड प्रत्यये लीव:-इन्द्रः, तद्वत् धन्व-धनुर्यस्य स लीवधन्वा । अथवा क्विंचि (क्वचित्) गाण्डीवस्थाने गांजीव-शब्दोऽप्यस्ति, ततः जीवधन्वाजीववत्-आत्मवत् वल्लभत्वात् धन्व-धनुर्यस्य स जीवधन्वा ॥५२।। हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गलीयाः सिषेवे । कृत्वा तासामभिगममपां सौम्यसारस्वतीनामन्तः शुद्धस्त्वमिव भविता वर्णमात्रेण कृष्णः ॥५३॥ व्याख्या ॥ अभिमत-इष्टः रस:-शान्ताभिधो यस्य यत्र वा स अभिमतरसः तस्य सम्बो० हे अभिमतरस !। रेवत्यां-रेवतीनक्षत्रे उपलक्षणत्वात् पुष्यादौ लोचनंलोचो यस्य स रेवतीलोचनः तत्सम्बो० हे रेवतीलोचन !! हे सौम्य !- हे अक्रूर ! । स नरेन्द्रः त्वं "वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्यय"-मिति[वाचनात् त्वंवत्-त्वमिव स नरेन्द्रः अन्तःशुद्धो भविता-भविष्यति । किं कृत्वा ? हालांसुरां हित्वा-सुरापानं त्यक्त्वा । स किंवि०?, ऋ-भूमिः, णो-ज्ञानं, तथा "मात्रापरिच्छदे अक्षरावयवे द्रव्ये" इत्यनेकार्थवचनात् मात्रा-परिच्छदः-पुत्रादिपरिवारत् । समाहारद्वन्द्वे ऋणमात्रं, तेन ऋणमात्रेण, कोऽर्थः ? भूम्या ज्ञानेन परिच्छदेन च कृष्ण:-कृष्णतुल्यः इत्यर्थः । सः कः ? 'यत्तदोर्नित्यसम्बन्धात्' यो नरेन्द्रः, इवोत्प्रेक्षायां, बन्धुप्रीत्येव-समानधर्मत्वात् बन्धुस्नेहेनेव अं-कृष्णं- भावितीर्थकरं सिषेवे-सेवितवान् । किं कृत्वा ?, तासां अपां-पानीयानां अभिगम-संस्पर्शआचमनं वा कृत्वा-विधाय-शुचीभूयेत्यर्थः । तासां कासां ?, 'यत्तदोनित्यसम्बन्धात्' या आपः लाङ्गलीयाः विद्यन्ते । ल-इन्द्रः, तस्य अङ्ग-वपुः, तल्लीयतेआश्लिष्यते यः स लाङ्गली:-मेघः । इन्द्रस्य मेघवाहनत्वात् वपुषि मेघा लीनाः विद्यन्ते इति रूढिः । ततस्तत्प्रभवा इमा लाङ्गलीया-मेघप्रभवा आपः इत्यर्थः । अपां किंवि० ? सारस्वतीनां-सरस्वत्यां नद्यां भवाः सारस्वत्यः, तासां सारस्वतीनाम् । आं किंवि० ? "अः कृष्णे विनतासूना"विति महीपवचनात् अस्य- गु(ग)रुडस्य अङ्क-चिह्नं यस्य स आङ्कः, तं अङ्कं(आङ्क)गरुडध्वजमित्यर्थः । स किंवि०? मरविमुखः-मश्चन्द्रस्तद्वत् सौम्यं, तथा रविःसूर्यः तद्वद् भास्वरं, मुखं-आस्यं यस्य [स] मरविमुखः ॥५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy