________________
अनुसन्धान ३२ तदाऽभ्यर्णवत्तिसरःसिन्धुकूपादिजलं सकलं व्ययितं दूरे एव जलं स्थितमिति भाव: । भूरिदानं च दत्तमिति तात्पर्यार्थः । तस्याः कस्याः ? ' यत्तदोर्नित्यसम्बन्धात्' या आ-लक्ष्मीः सिन्धोः- समुद्रात् तनुं - देहं अवेः प्राप्त्यर्थत्वात् आव-प्राप । तनु (नुं) किंवि० ?, आत्-कृष्णात् अपि पृथुं - महत्तरं - गुरुतरं । पुनः किंवि० ? नीलं - नीलमणिरूपं । पुनः किंवि० ?, एकं श्रेष्ठं । पुनः किंवि० ?, मुक्तागुणं - मुक्ताःत्यक्ता: अगुणा: अपगुणा येन स मुक्तागुणः तं मुक्तागुणम् । या किंवि० ? दूरात् भातीति डप्रत्यये दूरभा । त्वयि किं० ? शाङ्गिणः- कृष्णस्य वर्णो - यश:स्तुतिर्वा तस्य चौर:- अपहारकः सः तस्मिन् वर्णचौरे - कृष्णयशः सर्वस्वापहारके इत्यर्थः ॥५०॥
तामुत्तीर्य व्रजपरिचितभ्रूलता विभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥५१॥
व्याख्या ॥ भ्रूलताया विभ्रमो - भ्रूसमुद्भवो विकारविशेषो विद्यते यासां ताः भ्रूलताविभ्रमाः, विशेषणसामर्थ्यात् स्त्रियः, तासां भ्रूलताविभ्रमाणां स्त्रीणां व्रजो (व्रजः) - समूह:, तेन परि - समन्तात् चितो - व्याप्तो यः तस्य सम्बो० हे व्रजपरिचित !! भूलताविभ्रमाणां किं० ?, प्रकर्षेण भातीति प्रभा, प्रकृष्टा वा प्रभा यासां ताः प्रभाः, तासां प्रभाणाम् । आत्- कृष्णात् उत्- ऊर्ध्वं प्राबल्येन वा क्षेपः- उपमादिभिः आधिक्यकरणं यस्य तस्य सं० हे उत्क्षेप ! पा-प्रौढा क्ष्माभूमिर्यस्य तस्य सम्बो० हे पक्ष्म ! परि- सामस्त्येन विलसत् - देदीप्यमान्नं (नं) कृष्णवत्-विष्णुवत् सारं बलं धनं वा यस्य तस्य सं० [हे] परिविलसत्कृष्णसार ! । नुं-स्तुतिं गच्छति स नुगः, तस्य सम्बो० हे नुग ! । मधु-मद्यं कुर्वन्तीति मधुकरा:कल्यपालाः, तेषां श्रियं लक्ष्मीं शोभां वा मुष्णाति अपहरति यः स मधुकर श्रीमुषः । त्वया मद्यस्य करणं पानं च निषिद्धं, ते तु तत् कुर्वन्ति । ततस्तेषां शिक्षार्थं सर्वस्वापहारकः । तस्य सम्बो० हे मधुकर श्रीमुष ! । आम:श्रीआमनृपः श्रीबप्पभट्टिसूरिपादानां परमभक्तः, तथा त्वमपि श्रीहीरविजयसूरिपादानां ततु (तत्तु) ल्यः, तत्सम्बो० हे आम ! । दै:- कलत्रैः, “शं श्रेयसि सुखेऽव्यय" इति सुधाकलशवचनात् श:- श्रेयान् उत्कृष्टः, तत्सम्बो० हे दश !!
=
82
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org