SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ June-2005 अशक्तिमन्तः स्यु[:] तादृशा: ता:- तस्करा यस्मात् तं गलितम् ॥४८॥ आराध्यैनं शरवणभुवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथा[:] सुरभितनयालंभजां मानयिष्यन् श्रोतोमूर्त्या भुविपरिणतां रन्तिदेवस्य कीर्त्तिम् ॥ ४९ ॥ व्याख्या - हे आराध्य !- हे पूज्य ! सुरभितः - सुगन्धीकृत: नयो - न्यायो येन तस्य सं० हे सुरभितनय ! । अथवा सुरभिर्गो: (गः) तस्याः तनयः - पुत्रः वृषभस्तस्य सं० हे सुरभितनय ! धौरेयत्वात् । विलम्बं कुर्या:- क्षणमात्रं तत्र स्थेयमिति भाव: । हे गुरो ! त्वं रनं (नर) देवं नृपं ष्य ( प्र ? ) ति व्यालम्बेथाः त्वं कुतः ? 'डलयोरैक्यात्' जडानां मूढानां कणो अल्पमात्रं यत् भयं, असौ नरेन्द्रस्याग्रे क्षणमात्रं न स्थास्यतीत्यादिरूपा भीतिः तस्मात् जलकणभयात् । त्वं किं० ?, उल्लङ्घिनाध्वा, सुगमम् । पुनः किं० त्वं ? मुक्त: - त्यक्तः मार्गोऽन्वेषणंपन्था वा येन सः मुक्तमार्गः, कस्य ? ए: - कामस्य । पुनः त्वं रन्तिदेवस्य कृस्तस्य (?) कीर्त्ति(र्त्ति) अलं - अत्यर्थं भज - सेवस्व । कषा(या)?, श्रोतोमूर्त्या श्रोतांसि-इन्द्रियाणि तैः प्रधानाः मूर्तिः शरीरं तया । कोऽर्थः ? पञ्चेन्द्रियप्रधानशरीरेण कीर्त्ति (ति) प्राप्नुहीत्यर्थः । कीर्तिं किम्भूतां ? पञ्चेन्द्रियप्रधानशरीरेण पृथिव्यां परिणतां विस्तीर्णाम् । त्वं किं कुर्वन् ?, मामां (?) आं- श्रियं आनयिष्यन् । देवं किम्भूतं ? शरवणभुवं महातेजस्वित्वात् स्कन्दतुल्यमित्यर्थः ॥ ४९|| त्वय्यादातुं जलमवनते शार्डिंगणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो दूरमावर्ज्य दृष्टी रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥५०॥ 81 व्याख्या || स्थूलं मध्यं यस्य अथवा "मध्यं न्याय्येऽवलग्नेन्तरि" ति वचनात् स्थूलं-पीनं मध्यं - न्याय्यं - न्यायो यस्य सः स्थूलमध्यः, तस्य सम्बो० हे स्थूलमध्य ! भुवः - पृथिव्यां हे इन्द्र ! - हे शक्र ! त्वयि तस्या - लक्ष्म्याः प्रवाहंलोकरूढ्या दानं दातुं अवनते - नीचे भूते सति दृष्टी: - लोचनानि आवर्ज्य - सम्यग् संस्पृश्य, गगनगतयो देवाः, इवोत्प्रेक्षायां, जलं - पानीयं दूरं दूरे एव नत्वभ्यर्णं प्रेक्षिष्यन्ते - द्रक्ष्यन्ति । कोऽर्थः ? त्वया यदा दक्षिणा याचकेभ्यो दत्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy