SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 62 अनुसन्धान ३२ सुधाकलशवाक्यात् रुः-सूर्यः, तेन ऊढा:-स्वविमाने धारिताः ते रूढाः । तैः रूढः । किं कृत्वा ?, नितरां ई-लक्ष्मीं पातीति नीपं एवंविधं कं-सुखं ते-तव दृष्ट्वा अहं शङ्के । अत एव वैरिणां विनाशात् त्वं सुखेन तिष्ठसीति भावः । चकारः पुनरर्थे । ते-तव सुरभि-शोभनं गन्धं प्रति मार्ग-मृगमदं सूचयिष्यन्तिकथयिष्यन्ति । के ?, इत्याह-सारङ्गाः-सबलपुरुषाः नपति-श्रीपतिप्रभृतयः । यतः = "सारङ्गश्चातके भृङ्गे कुरुगे(रङ्गे ?) च मतङ्गजे । पक्षिभेदे च सारङ्गः सारङ्गः सबलेष्वपि ॥१॥ "इति । किं कृत्वा ?, आघ्राय-सिङ्घित्वा । तव किम्भूतस्य ?, बमुचः-‘बवयोरैक्यात्'-"बकारो वरुणे पद्मे कलहे विगतौ" इति सुधाकलशवाक्यात् बं-कलहं मुञ्चति-त्यजति, क्विपि स बमुग्, तस्य बमुचः । “वष्टि भागुरि"रित्यादिना अपेरकारलोपः ॥२२॥ अम्भोबिन्दुग्रहणरभसांश्चातका का )न्वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिदशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कण्ठानि प्रियसहचरीसम्भ्रमालिङ्गितानि ॥२३॥ व्याख्या- अम्भोबिन्दु इत्यादि । भो इत्यामन्त्रणे । हे निप्रिय ! -- नितरां प्रियो-वल्लभस्तस्य सं० । अथवा "निस्तु नेतरि" इत्येकाक्षरीवचनात् नीनांभूमिपतीनां प्रियः तस्य सं० हे निप्रिय ! । सहचरीभिः सम्भ्रमेण त्वरया आलिङ्गितअ(आ)श्लिष्टः, तस्य सं० हे सहचरीसंभ्रमालिङ्गित !। त्वां-अर्थात् श्राद्धं आसाद्यप्राप्य सिद्धाः-सर्वप्रकारैः प्राप्तप्रतिष्ठा:- श्रीपरमगुरवः मानयिष्यन्ति । क्व ?, स्तनितसमये । स्तनित-उक्तः अर्थाद् भगवा(व)ता यः समयः-सिद्धान्तः तस्मिन् सिद्धाः । किं कुर्वाणाः ?, वीक्षमाणाः-पश्यन्तः । कान् ? अतन्ति-सततं गच्छन्ति इति आतकाः-प्राणिनः तान् आतकान् । किम्भूतान् ?, 'बवयोरैक्यात्' उ:शम्भुः, इन्दुः-चन्द्रः, तयोर्देवत्वेन ग्रहणं-देवताबुद्ध्याऽङ्गीकरणं तत्र रभसा:[उत्सुकायन्ते, तथैव तान् बिन्दुग्रहणरभसान्-मिथ्यात्विनः पश्यन्तः इत्यर्थः । पुनः किं कुर्वन्तः ?, निद्दिशन्तः । किं?, अं-परब्रह्म प्ररूपयन्त इत्यर्थः । पुनः किं० ?, श्रेणीभूताः-उपशमश्रेणीभूता इत्यर्थः । कथं ?, अनि-न विद्यते इ:कामो यत्र तत् अनि-अकामं यथा स्यात्तथा श्रेणीभूता इत्यर्थः । पुनः किम्भूताः ?, १. क्षेपकोऽयमिति मु. मेघ० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy