SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ June-2005 61 तुलयितुं तव सादृश्यं कर्तुं आ-लक्ष्मी: तस्याः], "निस्तु नेतरी"त्येकाक्षरीवाक्यात् निः-नेता, स चासौ ल-इन्द्रश्च स-आनिलः न शक्ष्यति-न समर्थो भविष्यति । त्वां किम्भूतं ?,तस्याः समृद्धेः तिक्तैः-मनोज्ञैः मदैः-हर्षेः सितं-धवलं अशुभकर्मबन्धाभावात् । समुच(च्च)ये । लः किम्भूतः ?, वान्ता-उद्गीर्णा वृष्टिर्येन स वान्तवृष्टिः “इन्द्रात्वृष्टि"रिति स्मृतेः ।२। पुनः किं०? छा-निर्मला ई-लक्ष्मीर्यस्य सः छः । त्वां किम्भूतं ?, जम्बुः(म्बू:)-जम्बु(म्बू)द्वीपः, कुञ्जाः-निकुञ्जाः, तेषु प्रतिहतः-आहतः 'रलयोरैक्यात्' रयः-तूर्यत्रयी यस्य सः, तं तथैव । पुनः किम्भूतं ?, अन्तर्मध्ये सारं-बलं यस्य सः, तं अन्त:सारम् । १। भवति त्वत्समीपे सर्व: रिक्त:-अर्थहीनोऽपि जनः पूर्णतागौरवाय: स्यात्-पूर्णा-परिपूर्णा ता-लक्ष्मीः, तथा गौरवं म:-लघुर्लघिमानं प्रासः (?) तथा (?) यस्य सः पूर्णतागौः (?) । ह त्वं (?) तथा अयो-लाभो यस्य स पूर्णतागौरवायाः]। अत्र चित्रत्वात् विसर्गो, यद्वेदं पदं नृपविशेषणं क्रियते ततः हे पूर्णतागौरवाय ! त्वत्समीपे सर्वोऽपि रिक्तः 'रलयोरैक्यात्' लघुः-रघुर्भवति-रघुराजेव भाग्यवान् भवतीति भावः ॥२१॥ नीपं दृष्ट्वा हरितकपिशं केशरैरर्थरूढि( लै)राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । 'दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोाः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥२२॥ व्याख्या-नीपं दृष्ट्वेत्यादि । हरीणां-अश्वानां ता-लक्ष्मीर्यस्य सः, तस्य सं० हे हरित !! हे क !-हे मित्र ! जनहितत्वात् । अ:-कृष्णः तद्वत् ऋद्धःसमृद्धः सः, तस्य सं० हे अर्द्ध ! दग्धानि अरण्यानि यैः ते दग्धारण्याः वह्निशस्त्रमयत्वात् । ईदृशा इषवः-बाणां(णाः) तैः अधिक:-अतिरिक्तः सः, तस्य सं० हे दग्धारण्येष्वधिक !। जेषु-जेतृषु ल-इन्द्रः, तस्य सं० हे जल ! हे ल !हे इन्द्र !! कस्याः ?, ऊर्ध्याः-पृथिव्याः । ते-तव 'शसयोरैक्यात्' शरैः-बाणैः 'रलयोरैक्यात्' दरी:-गिरिगुहाः उकुलाः । अनुकच्छं-कच्छं प्रति, अहं शङ्केविवर्कयामि । 'उरीश्वर' इति वाक्यात् ऊनां-एकादशरुद्राणां कुलं-गृहं यत्र ताः उकुलाः । कोऽर्थः ?, आवि:-प्रकटं, भूतेभ्य:-प्रेतेभ्य: प्रथमं-अग्रेसरत्वं यथा स्यात्तथा भूतप्रथमं । शरैः किम्भूतै ?, "रुः सूर्ये रक्षणेऽपि चे"ति १. जग्ध्वारण्येष्वधिक० मु. मेघ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy