________________
June-2005
59
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां मध्ये श्यामस्तन इव भुवः शेषविस्तारपाण्डुः ॥१९॥
व्याख्या - छन्नोपान्त इत्यादि । अमरवत्-देववत् मिथुनं-रतं-सङ्गतिर्वा यस्य सः अमरमिथुनः । “मिथुनं रतसङ्गत्योनि(रि)"त्यनेकार्थः । तस्य सं० हे अमरमिथुन !! त्वं भुवः-पृथिव्याः मध्ये-अन्तरे प्रेक्षणीयां-प्रकर्षेण दर्शनीयां अवस्थां दशां यास्यति । त्वं किम्भूतः ? निश्चलः । पुनः किम्भूतः ?, छन्नोपान्तःआवृतपार्श्वः । कैः ?, परिणतफलज्योतिभिः-परिणतं-पक्कं फलं शुभाशुभरूपं, ज्यो(द्यो)तयन्ति-शास्त्रेण प्रकाशयन्त्येवंशीलाः ते परिणतफलज्यो(द्यो)तिन:-शास्त्रेण शुभाशुभफलप्रकाशनात् निमित्तज्ञाः तैः; काननानैः-वनसहकारतुल्यैः; सर्वेषां फलप्रदर्शनात् । पुनः किम्भूतः त्वं ?, म:-चन्द्रः स एव 'रलयोरैक्यात्' चरःस्पशो यस्य सः । अथवा मवत् रात्रिचारित्वात् चरा यस्य स मचरः । पुनः किम्भूतः ?, श्यामः-प्रयागवट: सर्वेषां तापवारकत्वात्, अथवा अवत्-कृष्णवत् श्यामः-वृद्धदारको यस्य सः । पुनः किं०?, तानां -तस्कराणां नो-बन्धो यस्मात् स तनः । काव्यस्य चित्रत्वात् विसर्गलोपः । पुनः किम्भूतः ?, शेषवत्-शेषनागवत् यो विस्तारः तेन पाण्डुः-गौरः शेषविस्तारपाण्डुः । भुवो मध्ये किम्भूते ?, आरूढे-अध्युषिते । कस्मिन् ?, त्वयि-त्वद्विषये । किम्भूते त्वयि ?, स्निग्धाअरूक्षा वेणी-केशबन्धो यस्य सः । तथा 'शसयोरैक्यात्' ईशो-महादेवस्तद्वत् वर्णाः -शरीरस्य-स्तुतिर्वा यस्य सः । ततः कर्मधारयः, तस्मिन् स्निग्धवेणीसवर्णे। अथवा स्निग्धानां-मित्राणां वेणीसवर्णे-भूषकत्वात् शिरःशिखासमाने । अ:-कृष्ण:तद्वत् मस्तके लक्षणापेतत्वात् शिखा-चूडा यस्य सः, तस्य सं० हे असिख !! हे र !-हे नर ! । अथवा 'शसयोरैक्यात्' असि:-खङ्गः तेन खर ! - अतीक्ष्ण !, राक्षसविशेषे वा विपक्षाणां भक्षकत्वात् सः, तस्य सं० तथैव । शेषवत्-शेषनागवत् विस्तारः-प्रपञ्चो यस्य स तस्य सं० हे शेषविस्तार ! इत्यपि बोध्यम् । अनूनंअहीनं यथा स्यात् तथा । इ इति सम्बोधने । वकारः पुनरर्थे ॥१९॥
स्थित्वा तस्मिन्वनचरवधूभुक्तकुळे मुहूर्त तोयोत्सर्गाद् द्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशी) भक्तिस्थे( च्छे? )दैरिव विरचितां भूतिमङ्गे गजस्य ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org