________________
June-2005
51
आबद्धमालाः । अथवा आ-ब्रह्मा तेन बद्धं-निबद्धं मालं- कपटं यासु ताः तथैव । क्षणः-नाडिकाषष्ठो भागः, तस्य यः परिचयः तस्मात्, बहुपरिचये किं पुनः?। त्वां किम्भूतं ? सुभगं-सर्वजनेष्टम् । पुनः किंविशिष्टं ? खानि-सुखानि, तथा इभाः--गजाः, खानि च इभाश्च खेभाः । ते सन्त्यस्य स खेभवान् तं खेभवन्तं नूनं-निश्चितम् ॥९॥
तां चावश्यं दिवसगणनातत्परामेकपत्नीमव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥१०॥
व्याख्या - तां चाऽवश्यमित्यादि । दिवं-स्वर्गः तद्वत् सा-लक्ष्मीः मणिस्वर्णादिरूपा यस्य सः तस्य सं० हे दिवस ! । एकपत्नी-सुचरित्रा स्त्री सैव मा-जननी यस्य; "मा मातरि तथा लक्ष्म्या"मिति वाक्यात्; सः, तस्य सम्बो० हे एकपत्नीम !। भ्रातृजानां-भ्रातृपुत्राणां कुटुम्बपोषकत्वात् आयो-लाभो यस्मात् सः, तस्य सम्बो० हे भ्रातृजाय ! । प्रगतं अयशः-अकीर्तिर्यस्मात् सः, तस्य सम्बो० प्रायशः !। प्रणयि-प्रेमयुक्तं हृत्-हृदयं यस्य सः, तस्य सम्बोधनं क्रियते हे प्रणयिहत् !! तां आं-लक्ष्मीः त्वं अवश्यं द्रक्ष्यसि, आं किम्भूतां ?, परां प्रकृष्टां, त्वं किंविशिष्टः ?, विगतो हः-हस्तो येषां ते विहाः, ईदृशा ये ता:-तस्करास्तेषां गतिः-पलायनं यस्मात् सः विहतगतिः । पुनः किम्भूतः ?, आशा-दिशस्तासां बन्धो यस्मात् सः, अथवा आशा-याचकानां धनप्राप्तिरूपा वाञ्छा तस्या बन्धो यस्मिन् सः आशाबन्धः । पुनस्त्वं किम्भूतः ?, गणना-गणवत्-प्रमथवत् ना-नर अत एव लोकोक्त्या त्वं ईश्वरस्य निजभक्त इति सिद्धः । तां कामित्याह'यत्तदोनित्यसम्बन्धात्' या लक्ष्मीः । व्यापद्-विपत्तिः तस्या नाम-अभिधां रुणद्धि । क्व सति ? विप्रयोगे - वि-विशिष्टः प्रयोग:-प्रयुक्तिः दानधर्मादिकृत्यं, विविशिष्टं विविधं वा प्राति-पूरयतीति विप्रो-धर्माः । तस्य योगे सति या विपत्तिनाम आवृणोति-व्यापन्नाम । किम्भूतं ?, अङ्गनानां-स्त्रीणां कुसुमसदृशं गर्हणीयत्वात्पुष्पतुल्यमित्यर्थः । ननु "वाक्यान्तरप्रवेशेन विच्छिन्नं खण्डितं मतं"-इति वाग्भटालङ्कारवचनादनुचितमिहेदम् । नैवम् । अलङ्कारचूडामणौ "क्वचिद् गुणोऽपीति" भणनात् वाक्यान्तरप्रवेशेऽपि नाऽत्र दोषः । एवं अग्रेऽपि चिन्त्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org