________________
50
अनुसन्धान ३२
इव ? यथा अन्यो जनः पराधीनवृत्तिः-परवशः सन् त्वयि संनद्धे नश्यति तथा यमोऽपीत्यर्थः । तथा आः किम्भूताः ? "नानुस्वारविसर्गौ च चित्रभङ्गाय सम्मतौ" इति वाक्यात् सत्यः-शोभनाः । अनुस्वाराभावात् इत्यपि व्याख्येयम् ॥८॥
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगर्वः । गर्भाधानक्षणपरिचयानूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥९॥
व्याख्या - मन्दं मन्दमित्यादि । “गर्भः कुक्षौ शिसौत्सन्धौ (शिशौ सन्धौ) भ्रूणे पनसकण्टके मध्येऽग्नाऽपवरके" । इत्यनेकार्थवाक्यात् गर्भ:- सन्धिः तस्याऽऽधानं-निष्पादनं षड्गुणोपेतत्वाद् यस्य सः, तस्य सं० हे गर्भाधान ! । पे-पथि वाति-गच्छति तस्य सं० हे पव ! । हे नः !- हे नर ! अ:-कृष्णस्तद्वत् । "यो वातयशसोः पुंसी"ति विश्वलोचनवचनात् यो-यशो यस्य स अयः, तस्य सम्बो० हे अय ! । “थो भवेद् भयरक्षणे" इति वचनात् थो-भयरक्षणं, तत्र अ:-कृष्णतुल्यः तस्य सं० हे थाः ! । अथवा न यः अयः, अयः-अयशः, तस्य थो-भयरक्षकः तस्य सम्बोधनं हे अयथ ! । अ इति सम्बोधने । ते तव सः, गर्वोऽहङ्कारः । त्वां मधुरं शिवधुरं नदति, "मश्चन्द्रे विधौ शिवे " इति वाक्यात्, मः-शिवः तद्वत् धू:-धूर्वी यस्य स तं मधुरम् । कोऽर्थः ? तव गर्वः त्वां शिवं सकलकृत्यकर्तृत्वात् वक्तीति भावः । किम्भूतः गर्वः ?, अनुकूल:-आत्महितकारकः । पुनः किम्भूतः ?, वामः-प्रशस्तः स्वप्रतिज्ञानिर्वाहकत्वात् । स क इत्याह- 'यत्तदोनित्यसम्बन्धात्' यो-गर्वः मन्दं-अलसमपि नरं तु(नु)दति अशक्यवस्तुविधाने प्रेरयति । तथा च पुनः मन्दं-मूर्खमपि नुदति, अपीत्यध्याहार्यम् । तव गर्वः पुनः किम्भूतः ? "चश्चन्द्रचकोरयो"रित्येकाक्षरवाक्यात् चवच्चन्द्रवत् अतति-निर्मलत्वात् सततं गच्छति स चातः, ईदृशः कः-आत्मा यस्य स चातकः । चः पुनरर्थे । नये-न्याये नो-बुद्धिर्यस्य - "नो बुद्धौ ज्ञानबन्धयो"रिति सुधाकलशात्, सः,तस्य सम्बोधनं हे नयन ! । त्वां बलाका:-राजानः-स्त्रियो वा सेविष्यन्ते - आश्रयिष्यन्ति । कुतः ? क्षणपरिचयात् । बलेन कटकेन अकन्तिकुटिलं गच्छन्ति ते बलाका-नृपा इत्यर्थः । बलेन-रूपेण वाऽकन्तीति बलाका:स्त्रियः । ततश्च किम्भूताः ? आबद्धा-रचिता माला पुष्पादिदामपङ्क्तिर्वा यैर्याभिश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org