SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ June-2005 37 तेषु वा ई:-श्रीः तस्याः जनः जननं यस्मात्स चक्रेजनः, चक्रबान्धववत् सूर्यस्य । सति हि सूर्ये चक्रवाकपक्षिणां परमानन्दः समुत्पद्यते । तत्सम्बोधने चक्रेजन ! पुनः हे कतनय ! क:-यमस्तनयो यस्य स कतनयस्तत्सम्बोधने हे कतनय !! हे अस्नान ! न विद्यते स्नानं तैलककोटिकादिरूपं यस्मिन् स: अस्नानस्तत्सम्बोधने हे अस्त्रान! । रविवारे हि स्नानं तापकारि स्यात् । यदुक्तं-- 'आदित्यादिषु वारेषु, तापः कान्तिम॒तिर्धनं । दारिद्र्यं दुर्भगत्वं च कामाप्ति स्नानतः क्रमात् ।।' किंविधः ? हे उदकेषु पुण्य ! उत्-ऊर्ध्वमकन्ति-गच्छन्ति चारेण चरन्तीति उदका:-ग्रहा: तेषु 'पुण्यं तु सुन्दरे सुकृते पावने धर्मे' इति हैमानेकार्थ (प. ३७५) वचनात्, पुण्यः-सुन्दरस्तेषु मुख्येत्यर्थः । पुनः हे स्निग्धच्छाय ! स्निग्धा स्नेहवती छायानिजभार्या यस्य स तत्सम्बोधने हे स्निग्धच्छाय! पुनः किम्भूतेषु उदकेषु ? अतरुषु अनानां प्राणिनां रु:-रक्षणं येभ्यस्ते उदकास्तेषु उदकेषु । हे वसतिल ! वसति-रात्रिं लुनातीति वसतिल ! । किम्भूतेषु उदकेषु ? गिर्याश्रमेषु गिरिःपर्वतोऽर्थान्मेरुः तस्मादा-सामस्त्येन सर्वतः श्राम्यतीति गिर्याश्रमेषु । तृतीयोऽर्थः संपूर्णः ] ** * कश्चित्कान्तेति काव्यस्य विचक्षणचमत्कृते । अर्थत्रयमिदं चक्रे, गणिः समयसुन्दरः ॥१॥ श्री ॥ *** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy