________________
36
अनुसन्धान ३२
मेषराशिस्थस्य सूर्यस्य उच्चत्वात् । यदुक्तं- 'रवेर्मेषतुले प्रोक्ते' इत्यादि । तथा लहः 'लमम्बरे' इति विश्वशम्भु (प. १०४) वचनात् । ले - आकाशे । 'हशब्दो हास्यरसे चतुर्म (र्मु)खे चैव राजहंसे च' इति श्री कालिदासवचनात् । हःराजहंसो लहः-आकाशसरोवरे राजहंसशोभां विभ्राण इत्यर्थः । ततः कान्ताविश्चासौ लहश्च कान्ताविलहः । रलयोरैक्यं चित्रादित्वान्न दोषाय । अथवा कान्तेषु - उत्तमेषु वा अविरहः-विरहाभावो यस्य स कान्ताविरहः, तेषां प्रत्यक्षत्वात् । तत्सम्बोधनं हे कान्ताविरह ! पुनः हे गुरुण ! 'णः प्रकटे निष्कले च प्रस्तुते ज्ञानबन्धयोः ' इति सुधाकलश(प. २२) वचनात् । गुरो:- बृहस्पतेः सकाशात् णः - ज्ञानं यस्य स गुरुण: देवाचार्यत्वेन बृहस्पतेर्देवानां गुरुत्वात् । अथवा गुरो:- बृहस्पतेर्णोबन्धो यत्र स गुरुणः । रविमण्डले सर्वेषां ग्रहाणां अस्तत्वात् । तथा हे अस्वाधिकार ! स्वानि मित्राणि कमलानि अब्जबान्धवत्वाद्रवेः तद्विरुद्धानि अस्वानि अर्थात् कुमुदानि तेषां 'आधिर्मनोर्त्ती व्यसनेऽधिष्ठाने बन्धकोशयो:' इति हैमानेकार्थ (प. २४२) वचनात् आधि-बन्धं करोति इति अस्वाधिकारः । अथवा शसयोरैक्यात् अश्वेषु सप्तसंख्यतुरङ्गमेषु आधि:- अधिष्ठानं करोतीति अस्वाधिकारः । अथवा अश्वेषु अधिकारो वाहनादिरूपो यस्य सः अस्वाधिकारः तत्सम्बोधनं हे अस्वाधिकार ! तथा हे शापे प्रमत्त ! शापदानविषये अलस ! न तु दुष्टदेवादिवत् शापदानादितत्परः । हे अन ! 'न पुनः बन्धबुद्धयो:' ( अमरचन्द्रीय एकाक्षरनाममाला प. १२) इति वचनात् बन्धनरहित ! प्रकट इति यावत्, हे गमितम ! 'गमोऽध्वद्यूतभेदयो:' इति हैमानेकार्थ (३२४) वचनात् । गम:-मार्गे यस्यास्तीति गमि मार्गप्राप्तं गतमित्यर्थः । लोके हि मार्गप्राप्तस्य गतमिति व्यवहृतत्वात् । ततो गमि - गतं तमं - तिमिरं यस्मादसौ गमितमः । अथवा गमनं गमः पलायनं तदस्यास्तीति गमि नाशवत्तमं - तिमिरं यस्मादसौ गमितमस्तत्सम्बोधने गमितम !। तमशब्दोऽकारान्तोऽप्यस्ति । हे वर्षभोग्य ! वर्षाणि क्षेत्राणि भरतादिरूपाणि तेषां तेषु वा भोगः परिभोगाचाररूपो वर्षभोगः तत्र साधुः 'तत्र साधौ ये' इति ये वर्षभोग्यस्तत्सम्बोधने हे वर्षभोग्य ! । पुनः किं० भर्तुः 'भं धिण्ये मेषादौ' इत्यनेकार्थवचनात् (महीपसचिवकृत एकाक्षरसंज्ञ: काण्ड : ३३) । भैर्मेषादि -- राशिभिरश्विन्यादिनक्षत्रैर्वा क्रतवो वसन्तादिसंज्ञिका यस्मात्स भर्तुः । पुनः किंभूतो यक्ष: ? 'इर्भुवि श्रिया' इति तिलकानेकार्थ (प. ७) वचनात् । ईं भुवं अक्ष्णोति प्रकाशकरणेन व्याप्नोतीति यक्षः । हे चक्रेजन ! चक्रा:- चक्रवाकपक्षिणः तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org