________________
अनुसन्धान ३२
सकलशास्त्रप्रवीणत्वात् । अथवा तद्वत् गुरु:-गरिष्टो णः-ज्ञानं यस्य स . कान्ताविरहगुरुणस्तत्सम्बोधनं हे कान्ताविरहगुरुण ! पुनः हे अस्वाधिकारप्रमत्तश ! स्वं-द्रव्यं परिग्रहं(हः) इति यावत् तदभावोऽस्वं परिग्रहाभावः, स अधीयते यस्मिन्निति अस्वाधिः त्यक्तपरिग्रहत्वेन निर्ग्रन्थत्वात् । साभिप्रायं चैतत् विशेषणं परिग्रहत्यजनेन उद्धृतक्रियत्वात् । तथा रलयोरैक्यात् कलानां द्विसप्ततिसंख्यानां पुरुषसम्बन्धिनीनां चतुःषष्टिसंख्याकानां महिलासम्बन्धिनीनां वा समाहारः कालं, तत्प्राति-पूरयतीति कालप्रः-धर्मः । यतो हि सर्वा अपि कला धर्मादेव प्राप्यन्ते । अथवा कस्य-सुखस्य आरं-प्राप्ति प्रातीति कालप्रः, तं मथ्नातीति कालप्रमथ्, पापं तदेव 'तकारः कथितश्चौरे' इति वररुचि(प. २३)वचनात् तः-तस्करस्तत्र 'शः सूर्ये शोभने शीते' (विश्वशम्भु. प. १०८) इत्युक्तत्वात् श इव-सूर्य इव यः स कालप्रमत्तशः । ततः अस्वाधिश्चासौ कालप्रमत्तशश्च अस्वाधिकालप्रमत्तशस्तत्सम्बोधनं हे अस्वाधिकालप्रमत्तश ! तथा हे अये ! अपगतः इ:-कामो यस्मात् सो अयिस्तत्सम्बोधने हे अये ! अदेत: स्यमोटुंगिति सिलुक् । हे न अस्तंगमितमहिम! अस्तं गमिता महिमा-महत्त्वं यस्य सः अस्तंगमितमहिमः एवंविधो न सर्वदैव जाग्रन्महिमत्वात् । अथवा अस्तंगमितो 'मो मन्त्रे मन्दिरे' (विश्वशम्भु. प. ९४) इत्युक्तत्वात्, मः-मन्त्रं सूर्यादिमन्त्रो यत्र यस्य वा स अस्तंगमितमहिमः । अथवा अस्तंगमिता ‘मा वंतः स्त्री रमाक्र्योः ' (विश्वशम्भु. प. ९५) इतिवचनात् । मह्यां-पृथिव्यां मा रया-शोभा अर्चा पूजा यस्य सः अस्तंगमितमहिमः । एवंविधो न । तथा हे अवर्षभोग्य ! अवनं अव:षड्जीवनिकायरक्षणं तं ऋषन्ति-जानन्तीति अवर्षा:-साधवः तेषां 'भोगस्तु राज्ये वेश्याभृतौ सुखे धनेऽहिकायफणयोः पालनाभ्यवहारयोः' इति हैमानेकार्थ (प. ४१-४२) वचनात् भोग:-पालनं सारणावारणादिकं तत्र साधुः । तत्र साधौ इति ये । अवर्षभोग्यः तस्य सम्बोधने हे अवर्षभोग्य ! किंविशिष्टः (ष्टः?) त्वं? भर्तुः छाया-तीर्थकर प्रतिबिम्बं 'तित्थयरसमो सूरी' इत्याधुक्तत्वात् । पुनः किंविशिष्टः त्वं? यक्षः इ:-लक्ष्मीस्तया युक्तानि अक्षाणि-इन्द्रियाणि यस्य सः । ‘इवर्णादेरस्वे स्वरे यवरलं' इति यत्वे यक्षः रम्येन्द्रियः । पुनः हे चक्र ! 'चः पुंसि चेतने चन्द्रे चौरेऽहौ चारुदर्शने' इति श्रीहैमानेकार्थत्वात्(?विश्वशम्भु. प. ३१) । चेनचारुदर्शनेन क्रामतीति चक्रस्तत्सम्बोधने हे चक्र ! अथवा चक्रचिह्नोपेतत्वात् चक्रः तत्सम्बोधने हे चक्र !। तथा हे अस्नान-हे स्नानवर्जित ! किंविधेषु साधुषु ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org