SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ June-2005 कश्चित्कान्तेतिकाव्यस्य, विचक्षणचमत्कृते । अर्थत्रयमिदं चक्रे, गणिः समयसुन्दरः ||१| ॥ इति प्रथमोऽर्थः ॥ *** अथ श्रीखरतरस्वच्छगच्छन भोङ्गणदिनकराणां श्रीजिनचन्द्रसूरिसूरीश्वराणां वर्णनेन प्रकारान्तरेण द्वितीयमर्थमाह कश्चित्कान्ताविरहगुरुणा स्वाधिकार प्रमत्तः, शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षचक्रे जनकतनयास्नानपुण्योदकेषु । स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ||१|| Jain Education International 33 कश्चित्कान्तेत्यादि । हे इजनकतनय ! त्वं वसति रामगिर्याश्रमेषु इन इति सम्बन्धः । कोऽर्थः ? । इ: इकारस्तेनोपलक्षितो जनः जिनः । तथा 'कं शिरो जलमाख्यातं ' इति वररुचि ( प. ७) वचनप्रामाण्यात् । कं-जलं, तद्यो ज्यादाधाराधेययोरभेदोपचारात् प्राणयोगात्प्राणः प्राणिन इतिवत्, समुद्रस्तस्य तनयःपुत्रः कतनयश्चन्द्रः, ततः जिनश्चासौ कतनयश्च जिनकतनयः अथवा जिनपूर्वकः कतनयो जिनकतनयः जिनचन्द्रः तस्य सम्बोधनं हे जिनचन्द्र ! श्रीमत् खरतरगच्छाधीश्वर ! | वसतिः रात्रिस्तद्वद्वामः श्यामो गिरिर्वसति रामगिरिरञ्जनगिरिस्तस्मै आ-ईषत् श्रमो गमनाय खेदो येषां ते वसतिरामगिर्याश्रमाः । जङ्घाचारणविद्याचारणलब्धिमन्तः साधवः तेषु इन:- सूर्य इवाचार:(चर) तेषु मुख्यो भवेत्यर्थः । किंविशिष्टं(ष्टः) त्वं ? चित्- अवधारणे कः । कः - सुखकारी काकुर्ध्वनिविशेषः' इत्यादि वाग्भटालङ्कारव्याख्यानात् सुखकारी । हे कान्ताविरहगुरुण ! कोऽर्थः ? 'कै गै रैं इति शब्दे' इति धातुपाठवचनात् कायति - शब्दं करोति इति अर्थात् कं - शास्त्रं वाच्यवाचकभावसम्बन्धेन वाचकत्वात्तस्य । ततः कस्य - शास्त्रस्य अन्ते - पर्यन्ते अटति गच्छतीति कान्ताः एवंविधो विरह इति शब्दो यस्य स कान्ताविरहः, श्रीहरिभद्रसूरिर्विरहाङ्कत्वात्तस्य । तत: स चासौ गुरुश्च कान्ताविरहगुरुः तद्वत् 'णः प्रकटे निश्चले प्रस्तुते ज्ञानबन्धयोः ' इति सुधाकलश (प. २२) वचनात् । णः - ज्ञानं यस्य स कान्ताविरहगुरुणः For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy