________________
10
चातुर्येण चतुर्दशोऽयमभवत् तत्राधिकारः शुभः,
ग्रन्थे केशव एव तद् विजयतां मौलोऽत्र हेतुः श्रिये ॥१४॥ (३९ ए)
रचना प्रशस्ति
मत्वैवं भुवि धर्मलाभवचनं धीरैः परं दुर्लभं तत्प्राप्तावपि धर्मलाभविधिना साध्यं शिवोपार्जनम् । सम्यग्दर्शनबोधसाधुचरणान्यस्यायनं संस्मृतं सर्वज्ञैः जिनभास्करैः समुदितैः सिद्धिप्रतिष्ठाधरैः ॥२॥ जीयासुर्विजयप्रभाः, सुगुरवः श्रीमत्तपागच्छपास्तत्पट्टे विजयादिरत्नगणभृत् सूर्याश्च सूर्यादिमाः । तद्राज्ये कवयः कृपादिविजयास्तेषां सुशिष्यो व्यधात् शास्त्रं बालहिताय मेघविजयोपाध्यायसंज्ञः श्रिये ॥३॥ यदत्र किञ्चिल्लिखितं प्रमादा-दुत्सूत्रमास्थाय बलं स्वबुद्धेः । तज्जैनभक्तैः परिशोध्य साध्यः सद्धर्मलाभो ह्यनया दिशैव ॥४॥
उपाध्यायैरेवं ननु विरचितं मेघविजयैस्तपागच्छे स्वच्छे रसमयमिदं वाङ्मयमिह । बहूनां लोकानामुपकृतिविधौ तत्परतरैरमुष्मान्नैपुण्यात्समवहितपुण्याद् विजयताम् ॥५॥
द्वे सहस्त्रे पञ्चशतान्यस्य मानमनुष्ठुभाम् । श्रीधर्मलाभशास्त्रस्य ज्ञातव्यं भव्यधीधनैः ||६|| सूर्याचन्द्रमसौ यावद् यावन्मेरुर्महीधरः । श्रीजैनं शास्त्रं यावत् तावद् ग्रन्थः प्रवर्तताम् ॥७॥
अनुसंधान - ३०
इतिश्रीधर्मलाभशास्त्रे सामुद्रिकप्रदीपे महोपाध्याय श्रीमेघविजयगणिप्रकटिते चतुर्दशोऽधिकारः पूर्णः ।
पूर्णे च तस्मिन् ग्रन्थोपि पूर्णः ||श्रीः ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org