________________
सप्तमोधिकार प्रशस्ति
श्रीशङ्खेश्वरपार्श्वशाश्वतरवेः श्रीकेशवार्चाभृतः । शुश्रूषोस्तव वर्णमेघविजयस्यौन्नत्यभावो भुवि ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया तत्राभूदधिकार एष यशसां हेतुः श्रिये सप्तमः ॥ ( २८ बी)
अष्टमोधिकार मंगलाचरण
अनुसंधान- ३०
नेत्रानन्दनकारिणा भगवता पार्श्वेन शङ्खेश्वरे
त्याह्वानेन कलाभरैः कुवलयोल्लासं सदा कुर्वता । त्रैलोक्ये प्रतिभासिते समुचितः सोमाधिकारोधुना, प्रारभ्यः किल सभ्यकेशवप्रिया श्रीधर्मलाभाप्तये ॥ ( २८ बी) अष्टमोधिकार प्रशस्ति
श्रीशङ्खेश्वरपार्श्वशाश्वतरवेः श्रीकेशवार्चाभृतः ।
शुश्रूषोस्तव भक्तमेघविजय श्रीसोमनाम्नः सदा ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया तत्राभूदधिकार एष यशसां हेतुः श्रियेऽप्यष्टमः ॥ (३२ ए) नवमधिकार मंगलाचरण
श्रेष्ठा ज्येष्ठामल्लधर्मानुभावो, भावायैषां भाव्यते केशवार्च्यः । पार्श्वो भास्वानेव शङ्खेश्वराख्य-स्तस्माद्विश्वे शाश्वतोऽस्तु प्रकाश: ॥ (३२ ए) नवमधिकार प्रशस्ति
श्रीशङ्खेश्वरपार्श्वशाश्वतरवेः श्रीकेशवार्चाभृतः ।
शुश्रूषोस्तव भक्तमेघविजय ज्येष्ठादिमल्लस्य सः ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया तत्राभूदधिकार एष नवमो हेतुर्यशः सम्पदाम् ॥ (३५ बी) दशमोधिकार मंगलाचरण
अथ श्रीमूलराजस्य पार्श्वभास्वत्प्रसादतः ।
साध्यते धर्मलाभोऽयं केशवाभ्युदिताऽध्वना ॥ (३५ बी) दशमोधिकार प्रशस्ति
प्रभास्वत्केशवार्चस्य श्रीमेघविजयद्युतेः ।
मूलराज धर्मलाभः प्रोक्तः श्रीपार्श्वभास्वत: ॥ (३६ ए)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org