SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ August-2004 स्मेराक्षीयुगलेन मञ्जुलमभात् पाणौ गृहीतेन यस्तं निःशेषविशेषविद्वरगवीगेयं स्तुवेऽहं जिनम् ||७|| सर्वज्ञं नरकच्छिदं च हृदये विज्ञाय वामाद्वयव्याजाद् विश्वविलोचनालिनलिनी ह्लादैकहेलिच्छवी । सोल्लासं श्रयतः स्म शैलतनया पाथोधिपुत्री च यं पुण्यः पुण्यपथप्रकाशनपटुर्भूयात् स वः प्रीतये ॥८॥ ऐश्वर्यं वृषभध्वजत्वमननघं (मनघं ) यस्मिन्नवेक्ष्य प्रभौ नष्टे स्वामिनि चित्तजन्मनि रति- प्रीती तदेणीक्षणे । नित्यं निर्गतिके इव प्रणयिनं यं चक्रतुः स्त्रीद्वय - व्याजाद् विश्ववनप्रसूनसमयः पुष्णातु पुण्यं स वः ॥९॥ स्नेहाढ्ये सुदृशे अनश्वरमहे सत्पात्रिके दीपिके जाते ये सुदृशौ विधेर्विदधतो विश्वातिते (गे) एव यः । गृह्णाति स्म करेण दर्शनधिया सत्कर्मधर्माध्वनोः श्रीमन्तः प्रथयन्तु पुण्यपटवः पादास्तदीयाः शिवम् ॥१०॥ दस्त्राभ्यां भुवनातिशायिगुणया रूपश्रिया सान्द्रया ध्वस्ताभ्यामुपढौकिते उपदया [ तत्] स्वस्वसाराविव । यो जग्राह करेण तत्प्रतिनिधी कन्ये उभे निर्निभे नम्रानेकनरेन्द्रवन्दितपदं वन्दामहे तं जिनम् ॥११॥ ऊर्ध्वाधः ककुभोः प्रतापपटलैराकान्तयोर्भीततद्भर्तृभ्यामुपढौकिते इव निज (जा) स्थानश्रियां मण्डने । [ लि? ] प्राभृतके प्रभुः प्रणयवान् पाणौगृहीते उभे यश्च सुचिरं चिनोतु रुचिरां चारित्रचर्यां स वः ॥१२॥ आद्यस्तीर्थकृतां तथा क्षितिभृतां भावी समेषामयं विश्वेऽस्मिन्निति तच्छ्रियोः प्रतिभुवौ मत्वेव कन्ये उभे । यः पूज्यैः परिणायितः किल रति- प्रीती इव श्रीसुतः श्रीमान्नाभिसुतः प्रयच्छतु स वः पद्मामुदन्वानिव ॥ १३ ॥ Jain Education International For Private & Personal Use Only 11 www.jainelibrary.org
SR No.520529
Book TitleAnusandhan 2004 08 SrNo 29
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy