________________
July-2004
गवलगणनामन्यैः कृत्वाऽपघृष्टमपण्डितैर्मरकतमहो ! मार्गावस्थं कथं न विडम्बितम् ! ॥२॥ कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि[प्रति]पद्यते । न च विरौति न चापि स शोभते, भवति योजयितुर्वचनीयता ॥३॥ कुस्त(मनस्ति ?)मितसारस्य (?), तेजसस्तद्विजृम्भितम् । येन पाषाणखण्डस्य मूल्य(ल्यं ?) मूल्यं वसुन्धरा ॥४॥ विरम रत्न ! मुधा तरलायसे, तव न कश्चिदिहास्ति परीक्षितः(क्षक:)। विधिवशेन परिच्युतमाकरात्, त्वमपि काचमणिः(णी)कृतमीश्वरैः ॥५॥ केनासीन: सुखमकरुणेनाऽऽकरादुद्धृतस्त्वं विक्रेतुं वा समभिलखि(षि)त: केन देशान्तरेऽस्मिन् । यस्मिन् वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे ! त्वत्परीक्षाक्षमोऽपि ॥६॥ सन्त्यन्ये झषकेतनस्य मणयः किं नोल्लसत्कान्तयः किं वा तेऽपि जने न भूषणपदं न्यस्ता न शोभाभृतः । अन्यः कोऽपि तथापि कौस्तुभमणिः स्फीतस्फुरद्दीधितिर्यः पूषेव नभः समुज्ज्वलयति स्फारं मुरारेरुरुः ॥७॥ एकस्मिन् दिवसे मया विरचि(चर)ता प्राप्तः कथञ्चिन्मणिर्मूलं यस्य न विद्यते भवति चेत् पृथ्वी समा(म)स्ता ततः । सोऽयं दैववशादभूदतितरां काचोपमः साम्प्रतं किं कुर्मः किमुपास्महे कस सुहृद् यस्याऽयमावेद्यते ॥८॥ (?) वणिगधिपतेः(ते !?) किञ्चित् कुर्म व्युत्कुम्मिह(?) मा कृथाः कथय निभृतं केयं नीति: पुरे तव संप्रति । मरकतमणिः काचो वाऽयं भवेदिति संशये लवणवणिजां ययापारः परीक्षितुमीक्ष्यते ॥९॥
रत्नाष्टकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org