SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 22 अनुसंधान-२८ हा धिक् ! परव्यसनदुर्ललितस्य येन केनापि रे सरलचातक ! वञ्चितोऽसि । येनाऽम्बुवाहमपि याचसि याचितस्य यस्याऽस्य याचितुरिवाऽतिमलीमसत्वम् ॥४॥ योऽयं वारिधरो धराधरशिरस्यभ्युनत: केवलं गर्जत्येव गभीरधीरनिनदेनाऽयं सखे ! वारिदः । तत्ते चातक ! पातकस्य कतमस्यैतत् फलं पच्यते येनाऽसौ न ददाति याचितवते चेतोऽपि निर्विन्नताम् (?) ॥५॥ किं नाम दुःकृतमिदं भवतश्चकास्ति येनात्र दैन्यपिशुनं बत याचितोऽपि । एतेऽपि कामनिभृतोन्नतयोऽपि तृप्त्यै मुञ्चन्ति चातक ! पयो न पयोमुचस्ते ॥६॥ विरम चातक ! दैन्यमपास्यतां, बत चटूनि कियन्ति करिष्यसि ? । विधिविनिर्मितमम्बुकणद्वयं, किमधिकं कलयाऽपि भविष्यति ? ||७|| अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये भ्रातश्चातक ! किं वृथाऽत्र रटितैः खिन्नोऽसि विश्रम्यताम् । मेघः शारद एष काशधवलः पानीयरिक्तोऽधरो गर्जत्येव हि केवलं भृशमपां नो बिन्दुमप्युज्झति ॥८॥ किमत्र० बप्पीहाष्टकम् ॥ (१७) पथि परिहृत कनक मन स्तमित विरम रत्न केन संत्यन्ये । एकस्मिन् वणिगधिपतिपादे रत्नाष्टकं गदितम् ॥१॥ पथि परिहृतं कैश्चिद् दृष्ट्वा न जातु परीक्षितं विधृतमपरैः काचं मत्वा पुनः परिवर्जितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520528
Book TitleAnusandhan 2004 07 SrNo 28
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy