________________
July 2004
(१४)
चिन्तामन्तः कौपं रेवा दन्ते तथैव नो मन्ये । न चरति घासग्रासं गजाष्टकं विश्रुतं लोके ॥ १॥ चिन्तामिमां वहसि किं ग़जयूथनाथ ! योगीव योगविनिमीलितनेत्रयुग्मम् । पिण्डं गृहाण पिब वारि यथोपनीतं दैवाद् भवन्ति विपदः खलु सम्पदो वा ॥२॥
अन्तःसमुत्थविरहानलतीव्रताप
सन्तापिताङ्ग ! करिपुङ्गव ! मुञ्च शोकम् । धात्रा स्वहस्तलिखितानि ललाटपट्टे
को वाऽक्षराणि परिमार्जयितुं समर्थः ? ||३||
कौपं वारि विलोक्य वारणपते ! किं विस्मितेनाऽऽस्यते प्रायो भाजनमस्य संप्रति भवांस्तत् पीयतामादरात् । उन्मज्जच्छफरी - पुलिन्दललनापीनस्तनास्फालनस्फारी भूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा ||४|
रेवापय: किशलयानि च सल्लकीनां विन्ध्योपकण्ठगहनं स्वकुलं च हित्वा । किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः स्नेहो हि कारणमनर्थपरम्परायाः ॥५॥
दन्ते न्यस्तकरः प्रलम्बितशिरः (राः) सम्मील्य नेत्रद्वयं किं त्वं वारण ! खिद्यसे वनितया को नाम नो वञ्चितः । भूत्वा शान्तमना गृहाण क़वलं स्नेहोऽधुना त्यज्यतां ये मत्ता ह्यविवेकिनो विषयिणस्ते प्राप्नुवन्त्यापदम् ॥६॥
नो मन्ये दृढबन्धनक्षतमिदं नैवाङ्कुशोद्धट्टनं स्कन्धारोहणताडनात् परिभवो नैवाऽन्यदेशागमः ।
Jain Education International
For Private & Personal Use Only
19
www.jainelibrary.org