SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२६ सन्त्यस्मिन्निति वाऽरिः-चक्रम् । “रथाङ्गं रथ(क्ष)पादोऽरि चक्रम्" इति हैमः । "अरिः पुं० शत्रौ, रथाङ्गे, चके, विखदिरे, षट्सु कामक्रोधादिषु, तत्सङ्ख्यासाम्यात् षट्सङ्ख्यायाम, ज्योतिष्प्रसिद्धे लग्नावधिके षष्ठस्थाने, ईश्वरे (शिवे), तन्त्रोक्तमन्त्रभेदे, राज्ञो विषयान्तरस्थिते नृपतौ, प्रेरके त्रिलिङ्गः" । अत्र तु शत्रुः । प्रसभेन बलात्कारेण उद्धृता-उन्मूलिता अरयः शत्रवो येन सः प्रसभोद्धृतारिः । ___नयतीति 'नियो डित्' ॥८५४ ॥ इति 'उणादिश्रीसि०' सूत्रेण ‘णींग्प्रापणे' धातोः डिति ऋप्रत्यये, 'पा०' मते च डिति ऋन्प्रत्यये ना-पुरुषः पुं० । "मर्त्यः पञ्चजनो भूस्पृक् पुरुषः पूरुषो नरः, मनुष्यो मनुषो ना विद् मनुजो मानवः पुमान्" इति हैमः । “न पुं० मनुष्ये, पुरुषे च, जातौ ङीपि नारी" । पातीति 'पातेर्वा' ॥६५९॥ इति 'उणादिश्रीसि०' सूत्रेण 'पांक्-रक्षणे' धातोः किदति प्रत्यये 'पा०' मते च डति प्रत्यये "पतिः भर्ता, रक्षिता, प्रभुश्च" । "अधिपस्त्वीशो नेता परिवृढोऽधिभूः, पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरो विभुः, ईशितेनो नायकश्च" इति हैम: । पतिः वरः । "प्रेयस्याद्याः पुंसि पत्यौ भर्ती सेक्ता पतिर्वरः, विवोढा रमणो भोक्ता रुच्यो वरयिता धवः" इति हैमः । “पतिः पुं०' भर्तरि, मूले, अधिपतौ त्रिलिङ्गः, स्त्रियां वा ङीप्" नृणां पति: "नृपतिः कुबेरे, राजनि च" । अत्र राजार्थः । नृपतिः-राजा, दिलीपः । जायते स्मेति जातः । 'जन्-प्रदुर्भावे'धातोः क्तप्रत्यये "जातं-समूहः न० जातम्, त्रिलिङ्गः उत्पन्नम्" । “सङ्घाते प्रकरौघ-वार-निकर-व्यूहाः समूहश्चयः सन्दोहः समुदाय-राशि-विसर-वाताः कलापो व्रजः कूटं मण्डल-चक्रवालपटल-स्तोमा गण: पेटकं वृन्दं चक्र-कदम्बके समुदयः पुञ्जोत्करौ संहतिः, समवायो निकुरम्बं जालं निवह-सञ्चयौ जातम्" इति हैमः । “जातं जात्योघजनिषु" इत्यनेकार्थसङ्ग्रहः । जातिः -सामान्यं यथा 'रत्नं सुजातं १. अभि० चि० तृ० ७५५ । २. अभि० चि० तृ० ३३७ । ३. अभि० चि० तृ० ३५८-५९ । ४. अभि० चि० तृ० ५१६-१७ । ५. अभि० चि० ष० १४११-१२ । ६. अनेकार्थसङ्ग्रहे द्वि० १६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy