SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ December 2003 ९१ सूत्रेण, 'पा०' [मते] 'कर्तर्युपमाने' [३|२|७९ ॥ ] इति पा०' सूत्रेण च णिनि, मृगेन्द्रे गामी सिंहगामी । - शरणे साधुरिति 'तत्र साधौ ' ( |७|१|१५||) इति 'श्रीसि० ' सूत्रेण 'तत्र साधुः ' [ ४|४|१८|| ] इति 'पा०' सूत्रेण च यत्प्रत्यये शरण्यः । शीर्यते शीताद्यनेनेति शृधातो: ल्युटि शरणम् गृहम् । " गेहं तु गृहं वेश्म निकेतनम्; मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः, आलयो निलयः शाला सभोदवसितं कुलम्; धिष्ण्यमावसथः स्थानं पस्त्यं संस्त्याय आश्रयः, ओको निवास आवासो वसतिः शरणं क्षयः, धामाऽगारं निशान्तं च" इति हैर्मः । " शरणं गृहरक्षित्रोः" इत्यमरः । " शरणं रक्षणे गृहे " इति यादवः । शरणं न० । "गृहे, रक्षके, रक्षणे, वधे, घातके च; प्रसारण्यां स्त्री०; आप्-टाप् वा" । अत्र तु रक्षणम् । शरणे साधुरिति 'तत्र साधौ' इति 'श्रीसि० ' सूत्रेण शरणशब्दात् यप्रत्यये 'तत्र साधुः' इति 'पा०' सूत्रेण च यत्प्रत्यये शरण्यः । शृ- अन्यश्च । " शरणागतत्राणकरणयोग्ये, दुर्गायां स्त्री०" । प्रगता सभा अत्रेति प्रसभम् - हठः । " बलात्कारस्तु प्रसभं हठः" इति हैमैं: । सभया हि युक्तायुक्तविचारो लक्ष्यते । क्लीबलिङ्गोऽयमिति वृत्ति: । "प्रसभोऽस्त्री बलात्कारः" इति वैजयन्ती पुंस्यप्याह । अन्ये तु "प्रसभं त्रिलिङ्गः " । प्रगता सभा सभाधिकारो यस्मात् बलात्कारे । उध्रियन्ते स्मेति उत्पूर्वात् हृधातोः धृधातोर्वा कर्मणि के उद्धृताः उन्मीलिताः । “उन्मूलितमाबर्हितं स्यादुत्पाटितमुद्धृतम्" इति हैमैं: । "उद्धृतत्रि० उत्क्षिप्तो (ते), भुक्तोज्झितो (ते), कृतोद्धारो (रे), पृथक्कृते, उच्छेदिते च" । अत्र तु उत्क्षिप्तार्थः । इयतति 'स्वरेभ्य हः' || ६०६|| इति 'उणादिश्रीसि० ' सूत्रेण 'ऋक् - गतौ' धातोः इप्रत्यये, 'पा०' मते इत्प्रत्यये च अरिः शत्रुः । " शत्रौ प्रतिपक्षः परो रिपुः, शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी; दस्युः सपत्त्रोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः, दुर्हृत् परे: पन्थक- पन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभिमात्यराती" इति हैमः । अराः १. अभि० चि० च० ९८९-९०-९१-९२ । २४४० । २. अम० तृ० नानार्थवर्गे ३. अभि० चि० तृ० ८०४ । ४. अभि० चि० ष० १४८० । Jain Education International ५. अभि० चि० तृ० ७२८-२९ । For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy