SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ December - 2003 ८७ इति 'श्रीसि०'सूत्रेण 'क्वसुश्च' [३।२।१०७॥] इति 'पा०' सूत्रेण च कसौ 'घसेकस्वरातः क्सोः ' (४।२।८२॥) इति ['श्रीसि०' सूत्रेण] 'वस्वेकाजादघसाम्' [७।२।६७॥] इति 'पा०' सूत्रेण च आदेरिटि वसुप्रत्यये तस्थिवान्, तं तस्थिवांसम्-स्थितम् । केसराः स्कन्धसटा: सन्त्यस्येति केसरशब्दादिनि केसरी-सिंहाः । "सिंहः कण्ठीरवो हरिः, हर्यक्षः केसरि(री)भारिः पञ्चास्यो नखरायुधः, महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात्: श्वेतपिङ्गोऽपि" इति हैम: । सिंहे तु स्यात् “पलङ्कषः शैलाटो वनराजो नभ:क्रान्तो गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेषः । "केसरी पुं० सिंहे, अश्वे, पुंनागवृक्षे, नागकेसरवृक्षे, बीजकपूरवृक्षे, हनुमत्पितरि, वानरभेदे, च" । तं केसरिणं -सिंहम् । ___ सनति मृगादीन् सनोति वा सुखमिति 'कृ-वा-पा-जि-स्विदि-साध्यशौदृ-स्ना-सनि-जा-निरहीणभ्य उण' ॥१॥ इति 'उणादिश्रीसि०' सूत्रेण 'षणभक्तौ'षणूयी-दाने' वेति धातोः उण्प्रत्यये, 'पा०' मते जुंप्रत्यये सानुपर्वतैकदेशः। "स्नुः प्रस्थं सानुः" इति हैमः । पुंक्लीबलिङ्गः । “पर्वतस्थे समभूमिदेशे, प्रस्थे, वने, वातसमूहे, पथि, अग्रे, कोविदे, अर्के, पल्लवे च" । अत्र पर्वतस्थसमभूमिप्रदेशार्थः । सानूनि सानवो वा सन्त्यस्येति सानुशब्दात् तदस्याऽस्तीति मतुपि सानुमान् पर्वत: । “शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्, ग्रावा पर्वतभू-भूधरधराहार्या नगः" इति हैम: । "गिरौ प(प्र)पाती कुट्टम(ट्टार) उर्वङ्गः कन्दराकरः" इति हैमशेषः । तस्य सानुमतः - अद्रेः । दधाति पीतत्वमिति 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसिसच्यवि-भा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' ॥४(७)७३।। इति 'उणादिश्रीसि०' सूत्रेण 'डुधाङ्क्-धारणे च' इति धातोः तुन्प्रत्यये धातुः१. अभि० चि० च० १२८३-८४-८५ । २. अभि० चि० हैमशेषे - १८४-८५ । ३. अभि० चि० च ० १०३५ । ४. अभि० चि० च० १०२७ । ५. अभि० चि० हैमशेषे - १५८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy