________________
December - 2003
७९
साधुरनगार ऋषिमुनिः, निग्रन्थो भिक्षुः" इति हैमः । साधयति कार्याणीति वा साधुः-सज्जनः । “साधौ सभ्यार्यसज्जनाः" इति हैम: । साधु-रमणीयम् । "चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे, वामरुच्यसुषमाणि शोभनं म मञ्जुलमनोरमाणि च, साधुरम्यमनोज्ञानि पेशलं हद्यसुन्दरे, काम्यं कनं कमनीयं सौम्यं च मधुरं प्रियम्" इति हैमः ।
"साधुजैनमुनौ वार्द्धषिके सज्जनरम्ययोः" इत्यनेकार्थसङ्ग्रहः । सानोति परकार्यमिति वा साधुः, स चैवंभूतो यदाह पण्डितराजः
परार्थव्यासङ्गादुपजहदपि स्वार्थपरतामभेदैकत्वं यो वहति गुरुभूतेषु सततम् । स्वभावाद्यस्याऽन्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥१॥ सत्पु(पू)रुषः खलु हिताचरणैरमन्दमानन्दयत्याखिललोकमनुक्त एव । आराधितः कथय केन करैरुदारै
रिन्दुर्विकासयति कैरविणीकुलानि ॥२॥ 'पाणि०' मते साध्धातोरुणप्रत्यये साधुः त्रिलिङ्गः "उत्तमकुलजाते, सुन्दरे, मनोहरे, उचिते च, स्त्रियां ङीप् मुनौ, जिने च;
न प्रहष्यति सन्माने नाऽपमाने च कुप्यति ।
न क्रुद्धः परुषं ब्रूयादेतद्धि साधुलक्षणम् ॥ इत्याधुक्तधर्मवति जने, वार्द्धषिके च पुं०" । इह तूचितार्थः । आर्तेषु साधुः हितकारी आर्तसाधुः, तस्याऽऽर्तसाधो:-दीनरक्षणपरिचितस्य ।
नून् पातीति नृपः, तस्य नृपस्य-राज्ञो दिलीपस्य । स्थावरत्वात् न गच्छतीति 'नगोऽप्राणिनि वा' (३।२।१२७||) इति 'श्री०सि०' सूत्रेण 'नगः'
१. अभि० चि० प्र० ७५-७६ । २. अभि० चि० तृ० ३७९ । ३. अभि० चि० ष० १४४४-४५ । ४. अनेकार्थसङ्ग्रहे द्वि० २५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org