SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७८ अनुसंधान-२६ 'मघा घवाघदीर्घादयः' ॥११०॥ इति 'उणादिश्रीसि०' सूत्रेण दृणातेर्दीरि घप्रत्ययान्ते निपातने दीर्घः अन्य(आय)तः उच्चश्च । “दीर्घायते समे" इति हैमः। "दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्" इत्यमरः । 'पा०' मते तु दृधातोः र्घा घस्य नेत्वम् (?) दीर्घः पुं० । “शाललतावृक्षे, उष्टे, द्विमात्रे स्वरवर्णे च; आयते त्रिलिङ्गः" । अत्र त्वायतार्थः । गुहायां निबद्धः गुहानिबद्धः, गुहानिबद्धश्चाऽसौ प्रतिशब्दश्च गुहानिबद्धप्रतिशब्दः, गुहानिबद्धप्रतिशब्देन दीर्घम् गुहानिबद्धप्रतिशब्ददीर्घम्कन्दरप्रतिबद्धप्रतिध्वानायतम् । तस्याः इदम् तदीयम् । आफ्धातोः विपि पृषोदरादित्वात् पलोपे आ अव्ययं, “वाक्ये (वाक्यस्याऽन्यथात्वद्योतने), "पूर्वमेवं मंस्था इदानीमेवम्" इति प्रतिपादनपरे स्मृतौ (आ एवं मन्यसे इति स्मृतस्याऽन्यथापादने), अनुकम्पायां, समुच्चये, अङ्गीकारे, ईषदर्थे, क्रियायोगे, सीमायां व्याप्तौ च" । वाक्यस्मृतिभिन्नेऽस्य ङित्वमिच्छन्ति, यदाह ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।। इति । इह व्याप्त्यर्थः । आक्रन्दनं रुदितम् आक्रन्दितम् । "रुदितं क्रन्दितं क्रुष्टम्" इति हैमः । यद्वा आक्रन्द्यते इति आक्रन्दितम् । 'पा०' मते आपूर्वात क्रन्द्धातोः क्तप्रत्यये आक्रन्दितम् । आपूर्वात् 'ऋ-गतौ' भ्वादिर्जुहोत्यादिश्च प० सु० (स.) अनिट् 'ऋ-हिंसायां च' क्यादिः पर० सक० अनिट् । तत्र गत्यर्थाद्धातोः क्तप्रत्यये ऋच्छति स्म इयति स्मेति वाऽऽर्तः "पीडिते, दुःखिते, सुस्थे च" । उत्तमक्षमादिभिर्गुणविशेषैर्भावितात्मा सानोतीति साधुः, साधयति वा सम्यग्दर्शनादिभिः परमं पदमिति 'कृ-चा-पा-जि-स्वदि-साध्यशौ-दृस्नासनि-जा-निरहीणभ्य उण' ॥१॥ इति 'उणादिश्रीसि०'सूत्रेण 'साधंट्-संसिद्धौ' इति धातोः उत्तमक्षमादिभिस्तपोविशेषैर्भावितात्मा साध्नोति साधुः । सम्यग्दर्शनादिभिः परमपदं साधयति वा साधुः-संयतः । उभयलोकफलं वा साधयतीति साधुः-धर्मशीलः । “अथ मुमुक्षः श्रमणो यतिः, वाचंयमो यती १. अभि० चि० ष० १४२८ । २. अम० तु. विशेष्यनिघ्नवर्गे - २१६२ । ३. अभि० चि० ष० १४०२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy