SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५६ बलवति, महति, पूज्ये । इति पुराणम् । गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राऽभ्यागतो गुरुः । दुर्जर, गुरुत्ववति च त्रिलिङ्गे । अत्र तु पूज्यादिर्यथायथम् । जैनदर्शने तु गुरवोऽनेके प्रतिपादितास्तथाऽपि उपदेशकमुनिरूपगुरुस्तु महाव्रतधरत्वादिगुणगणोपेत एव । यदाह महाव्रतधरा धीरा भैक्षमार्गोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ||१|| धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः । सत्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ॥२॥ 'स्वयं परिहारः' इति श्रीहरिभद्रसूरिवचनात् यः सर्वारम्भादित्यागवान् स एवोपदेशदानाधिकारज्ञ नेतर इति ज्ञेयम् । योगपूर्वसेवाधिकारे तु एवंविधोऽपि गुरुवर्गः प्रतिपादितस्तथा चाऽऽह पूर्वसेवा तु योगस्य गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेति प्रकीर्तिताः ||१|| माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥२॥ पूजनं चाऽस्य नमनं त्रिसन्ध्यं पर्युपासनम् । अवर्णाश्रवणं नाम श्लाघोत्थानासनार्पणे ॥३॥ अनुसंधान - २६ सर्वदा तदनिष्टेष्टत्यागोपादाननिष्ठता । स्वपुमर्था (र्थ) मनाबाध्य साराणां च निवेदनम् ॥४॥ (द्वात्रिंशद्वात्रिंशिका) 'अत्र स्वपुमर्थमनाबाध्येत्यनेन यदि तदनिष्टेभ्यो निवृत्तौ इष्टेषु च प्रवृत्तौ धर्मादयः पुरुषार्था बाधन्ते तदा न तदनुवृत्तिपरेण भाव्यम्' इति तट्टीकायाम् । तद्वित्तयोजनं तीर्थे तन्मृत्यनुमतेर्भयात् । तदासनाद्यभोगश्च तद्विम्बस्थापनार्चने ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy