SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ December - 2003 पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः ॥५॥ सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ॥६॥ श्रमणानामियं पूर्णा सूत्रोक्ताचारपालनात् । द्रव्यस्तवादृहस्थानां देशतस्तद्विधिस्त्वयम् ॥७॥ न्यायार्जितधनो धीरः सदाचारः शुभाशयः । भवनं कारयेज्जैनं गृही गुदिसम्मतः ॥८॥ तत्र शुद्धां महीमादौ गृह्णीयात् शास्त्रनीतितः । परोपतापरहितां भविष्यद्भद्रसन्ततिम् ।।९।। अप्रीतिर्नैव कस्याऽपि कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्यादत्रोदाहरणं प्रभुः ॥१०॥ आसन्नोऽपि जनस्तत्र मान्यो दानादिना यतः । इत्थं शुभाशयस्फात्या बोधिवृद्धिं शरीरिणाम् ॥११।। इष्टकादिदलं चारु दारु वा सारवनवम् । गवाद्यपीडया ग्राह्यं मूल्यौचित्येन यत्नतः ॥१२।। भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः । धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु ॥१३।। जिनगेहं विधायैवं शुद्धमव्ययनीवि च । द्राक् तत्र कारयेद्विम्बं साधिष्ठानं हि वृद्धिमत् ॥१४॥ विभवोचितमूल्येन कर्तुः पूजापुरःसरम् । देयं तदनघस्यैव यथा चित्तं न नश्यति ॥१५॥ लोकोत्तरमिदं ज्ञेय-मित्थं यद्विम्बकारणम् । मोक्षदं लौकिकं चाऽन्यत् कुर्यादभ्युदयं फलम् ॥१६।। इत्थं निष्पन्नबिम्बस्य प्रतिष्ठाऽऽप्तैस्त्रिधोदिता । दिनेभ्योऽर्वाक् देशीयस्तु व्यक्तिक्षेत्रमहाह्वया ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy