SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५० अनुसंधान-२६ मणिखण्डमण्डिताभरणभारिणी जिनपतिप्रतिमा' मित्युक्तमिति । _ 'मणिमोत्तियदामएहिं' इत्याद्याप्तोक्तेश्च जम्बूद्वीपप्रज्ञप्तौ निर्वृतभगवच्छरीरस्य पूजाकालीनावस्थात्रिकभावनास्वरूपप्रतिपादेन स्तवानुलेपनाभरणादिविधानेन रात्रावपि गौतमादेर्भगवत्समीपावस्थानोपदेशः तच्चैत्यावस्थाननिषेधादिसूचितभावकल्पबिम्बकल्पभिन्नतया च कथं वीतरागावस्थे विचरति भावार्हति न विहितं भूषणरोपणादिकं तद्विम्बे कार्यमित्यारेकाकणोऽपि न विधेयः । दिगम्बरनिरासप्रस्तावे आभरणविषयकचर्चाविस्तरस्तु सम्मतेरवसेयः । देवगुरुविषयिणी भक्तिस्तु सम्यक्त्वं भूषयतीति सम्यक्त्वभूषणपञ्चके भक्तिनामाऽपि तृतीयं भूषणम् । पूज्यपादैरपि यथार्थभक्तिस्वरूपं प्रतिपादयद्भिरेवं द्वात्रिंशिकायां वर्णितम् - "सम्यग्दृष्टिपरिगृहीतानि मिथ्यादृक्श्रुतान्यपि सम्यक्त्वेन परिणमन्ती"ति । सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ! । श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धः स एव सः ॥१॥ इति गीतावचनतात्पर्यविचारणया अर्हदुपासक एवाऽर्हन् भवितुमर्हति, नाऽन्यः, अत एव 'वाल्मीकीप्रणीते योगवासिष्ठेऽपि श्रीरामचन्द्रेण सुध्याते यत् नाऽहं रामो न मे वाञ्छा भावेष न च मे मनः । शान्त आसितुमिच्छामि स्वात्मन्येव जिनो यथा ॥१॥ पदार्थमात्ररसिकस्ततोऽनुपकृतोपकृत् ।। अमूढलक्षो भगवान् महानित्येष मे मतिः ॥१॥ अर्हमित्यक्षरं यस्य चित्ते स्फुरति सर्वदा ।। परं ब्रह्म ततः शब्दब्रह्मणः सोऽधिगच्छति ॥२॥ परःसहस्राः शरदा परे योगमुपासताम् । हन्ताऽर्हन्तमनासेव्य गन्तारो न परं पदम् ॥३॥ आत्माऽयमहतो ध्यानात् परमात्वत्वमश्नुते । रसविद्धं यथा तानं स्वर्णत्वमधिगच्छति ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy