SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ December 2003 ४१ केशहस्तः । अत्र तु देहावयवभेदो हस्तः । साक्षातपात्रौ हस्तौ यस्याः सा साक्षतपात्रहस्ता । अथवा अक्षतैः सह वर्तमानं साक्षतम् । साक्षतं पात्रं हस्तयो: यस्याः सा साक्षतपात्रहस्ता । यदि वा सा इति व्यस्तं, अक्षतपात्रं हस्तयो: यस्याः सा अक्षतपात्रहस्ता । सा सुदक्षिणा । - प्रशस्तं पयोऽस्त्यस्याः सा, पयः शब्दात् प्रशस्ते विनि ङीपि च पयस्विनी, तां पयस्विनीम् - प्रशस्तक्षीराम् । तां धेनुम् । प्रदक्षिणीकृत्य - परिक्रम्य । प्रणम्य च । अस्याः धेन्वाः ‘वेर्विस्तृते शालशङ्कटौ (७|१|१२३||) इति 'श्रीसि० 'सूत्रेण विशालं विशङ्कटं साधू । “विशालं तु विशङ्कटम्, पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं विस्तीर्णं ततं बहु महद् गुरु" इति हैर्म:। “विशङ्कटं पृथु बृहत् विशालं पृथुलं महत्" इत्यमरः । शृणातीति शृङ्गम्- 'शृङ्गशार्ङ्गादयः ||१६|| इति 'उणादि श्रीसि० 'सूत्रेण शृधातोर्गान्तो निपातः । “विषाणं कूणिका शृङ्गम्" इति हैमः । शीर्यते निर्घातेनेति वा शृङ्गम् - शिखरम् । " शृङ्गं तु शिखरं कूटम्" इति हैम: । अथवा शुधातोर्गाने पृषोदरादित्वान्मुमागमे हूस्वे च "शृङ्गं न० पर्वतोपरिभागे, प्राधान्ये, चिह्ने, जलक्रीडार्थयन्त्रभेदे, 'पीचकारी 'ति लोकप्रसिद्धे, कामोद्रेके, पश्वादेर्विषाणे, महिषशृङ्गनिर्मितवाद्यभेदे, उत्कर्षे, ऊर्ध्वे, तीक्ष्णे, पद्मे च; कूर्चशीर्षकवृक्षे च पुं०" । अत्र तु शृङ्गं विषाणम् । शृङ्गयोरन्तरं शृङ्गान्तरम्, शृङ्गमध्यदेशं ललाटपट्टमिति यावत् । अर्यतेऽसौ अर्थः । 'कमि-प्रु-गार्तिभ्यस्थः ' ॥२२५॥ इति 'उणादिश्रीसि० ' सूत्रेण ऋधातोः थः । अथवा अर्थ्यते इति अर्थः । " कार्यं स्यादर्थः कृत्यं प्रयोजनम्" इति हैमैः । अथवा 'अर्थ - याचने' अदादिः चुरादिः आत्म० द्वि० सेट्, अर्थयते आर्तिथत् मतान्तरे अर्थापयते आर्तथापत इति "अर्थ: पुंभावकर्मादौ, यथायथं अच्विषये, अभिधेये, धने, वस्तुनि प्रयोजने, निवृत्तौ, हेतौ प्रकारे, अभिलाषे, उद्देश्ये तु" । अत्र तु प्रयोजनमुद्देश्यमित्यादि यथायोगम् । , १. अभि० चि० ष० १४२९-३० । २. अनं० तृ० विशेष्यनिघ्नवर्गे - २१४५ । ३. अभि० चि० च० १२६४ | Jain Education International ४. ५. अभि० चि० च० १०३२ । अभि० चि० ष० १५१४ । For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy