SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - २६ बहुचनान्त: । “लाजाः स्युः पुनरक्षताः" इति हैर्मः । पाति - रक्षति आधेयं, पीयतेऽस्मादिति वा पात्रं त्रिलिङ्गः । " पात्रामत्रे तु भाण्डम् ( भाजनं ) " इति हैम: । पिबन्ति अनेन इति पात्रम् । 'नी - दाव् - शस्-यु-युज- स्तु-तुद - सिसिच - मिह - पत - पा-नहस्त्रट् (५/२८८II) इति 'श्रीसि० 'सूत्रेण त्रट्, 'पा० ' मते पाधातोष्ट्न् । “पात्रं स्रुवादिकम्" इति हैमैः । पीयते इति पात्रं प्रवाहः त्रिलिङ्गः। "पात्रं तदनन्तरम्" इति हैमैं: । पान्ति स्वभूमिकामिति पात्राणि 'त्रट्' ॥४४६|| इति 'उणादिश्रीसि० ' सूत्रेण पाधातो: त्रट् । “पात्राणि नाट्येऽधिकृताः" इति हैर्मः । पापात् त्रायते इति निरुक्तिवशात् पात्रम् । “पात्रं जलाद्याधारे, भोजनयोग्येऽमत्रे, ज्ञानचरणयुक्ते, दानयोग्ये, मुनौ यज्ञीये, त्रुवादौ, तीरद्वयमध्यवर्त्तिनि, जलाधारस्थाने, नाटकेऽभिनये, नायकादौ च नपुंसकः " । अत्र तु पात्रममत्रम् । अक्षतानां पात्रम् अक्षतपात्रम् । अक्षतपात्रेण सह वर्तते इति साक्षतपात्रौ । हसतीति हस्त:- 'दम्यमि- तमि-मा-वा-पू-धू - गृ-ज् - हसि - वस्यसि वितसि मसीणभ्यस्तः ' ॥ २००॥ इति ' [3] श्रीसि० ' सूत्रेण 'हसे हसने' धातोः ते हस्तः-नक्षत्रविशेष: । " हस्तः सवितृदेवत:" [इति है : ] | हसत्यनेन हस्तः पुंक्लीबलिङ्गः । हसद्भिः मुखे दीयते वा हस्तः । “पञ्चशाखः शयः शमः हस्तः पाणिः करः” इति हैमैं: । "हस्तः प्रामाणिको मध्ये मध्यमाङ्गुलिकर्पू (कूर्प) रम्" इति हैर्म: । हस्तोऽङ्गुलविंशत्या चतुरन्वितया इति तदर्थः । "चतुर्विंशत्यङ्गुलानां हस्तः" इति हैम: । हस्यतेऽनेन इति हस्तः । " हस्तिनासा कर : शुण्डा हस्त: " इति हैर्मः। अत्र हस्तक्रियाकारित्वात् हस्तः । 'पाणिनीय' मते तु हस्धातो: तनि हस्त: पुं० । “हस्त: देहावयवभेदे चतुर्विंशत्यङ्गुलपरिमाणे । ४० 'यवोदरैरङ्गुलमष्टसङ्ख्यैः हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः' इति लीलावती । हस्तिशुण्डे च, अश्विन्यादिषु त्रयोदशे नक्षत्रे पुं० स्त्री० 'जाहन्वी हस्तयोगे ' इति पुराणम् । 'पुष्या हस्ता तथा स्वातिः' इति ज्योतिषम् । समूहे च यथा १. अभि० चि० तृ० ४०१ । २. अभि० चि० च० १०२६ । ३. अभि० चि० तृ० ८२८ । ४. अभि० चि० च० १०७९ । ५. अभि० चि० द्वि० ३२७ Jain Education International अभि० चि० द्वि० ११२ । अभि० चि० तृ० ५९१ । ८. अभि० चि० तृ० ५९९ । ९. अभि० चि० तृ० ८८७ । १०. अभि० चि० च० १२२४ । ६. ७. For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy