SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३५ [सि०] सूत्रेण जान्यादेशे अरुन्धतीजानि: । "वशिष्ठोऽरुन्धतीजानिः" इति हैमः । वसिष्ठस्य धेनुः वसिष्ठधेनुः, तस्याः वसिष्ठधेनोः । अनुयातीति अनुयायी, तम् अनुयायिनम्-अनुचरम् । वनस्याऽन्तः वनान्तः, तस्माद् वनान्तात् । आवर्ततेऽसौ आवर्तमानः, तम् आवर्तमानं प्रत्यागतम् । तं - दिलीपम् । वन्यते - भज्यते स्म वनिता - सुदक्षिणा । "स्त्री नारी वनिता वधूः, वशा सीमन्तिनी वामा, वर्णिनी महिलाऽबला, योषा योषित्" इति हैमः । I 44 ‘पच्यते विस्तीर्यते सात्मन्नात्मन् ॥९९६ ॥ इति 'औणादिश्रीसि० ' सूत्रेण मनि निपातने, पक्ष्म पुंक्लीबलिङ्गः । " पक्ष्म स्याद् नेत्ररोमणि" इति हैम: । पञ्च्यते इति पङ्क्तिः । " राजिर्लेखा ततिर्वीथी, मालाल्यावलिपङ्क्तयः, धोरणी श्रेणी" इति हैम:' । पक्ष्मणां पङ्किः पक्ष्मपङ्कि । निमेषेषु । निमेषणानि निमेषाः । "निमेषस्तु निमीलनम्" इति हैम:' । न लसतीत्यलस: अलतीति वा तप्यणिपन्यल्यपि-रधि-नभि-नम्यमि-चमि-तमि- चट्यति- पतेरसः || ५६९/ इति 'औणादिश्रीसि० 'सूत्रेणाऽसि अलसः । 'अथाऽऽलस्यः शीतकोऽलसः, मन्दस्तुन्दपरिमृजोऽनुष्णः" इति हैमः । अलसा पक्ष्मपङ्क्तिर्यस्याः सा निमेषालसपक्ष्मपङ्क्ति:-निर्निमेषा सतीत्यर्थः । लोच्यते आभ्याम् लोचने । "चक्षुरक्षीक्षणं नेत्रं, नयनं दृष्टिरम्बकम्, लोचनं दर्शनं दृक् च" इति हैम: । लोचनाभ्यां करणाभ्याम् । उपवसतः स्मेति उपोषिते, ताभ्याम् उपोषिताभ्यांबुभुक्षिताभ्याम् । वसतेः कर्तरि क्तः । उपवासः - भोजननिवृत्तिः । इव । पपौपीतवती । यथेोपोषितोऽतितृष्णया जलमधिकं पिबति, तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः । ६ अनेनाऽर्थकरणेनाऽस्य वृत्तिकारो मल्लिनाथः चतुर्विधाहारत्यागरूप एव वास्तव उपवास:, न तु फलाहाररूपः इति ज्ञापयति । उपवासो भोजननिवृत्तिरिति व्याख्यानेन च त्रिधाहारत्यागरूपस्याऽप्युपवासत्वं सङ्गच्छत एव । अनेन जैनमते यत् त्रिधाहारत्यागरूपं चतुर्विधाहारत्यागरूपं वोपवासरूपं (तत्) सङ्गतिमियर्ति । चतुर्विधाहारत्यागरूप उत्कृष्टः, त्रिधाहारत्यागरूपो जघन्यः । फलाहारकरणे तु १. अभि० चि० तृ० ८४९ । २. अभि० चि० तृ० ५०३-४ । ३. अभि० चि० तृ० ५८० । ५. अभि० चि० तृ० ५७८ । ४. अभि० चि० ष० १४२३ । ६. अभि० चि० तृ० ३८३-८४ । ७. अभि० चि० तृ० ५७५ । December 2003 - - Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy