________________
December - 2003
मानानि 'डाच्लोहितादिभ्यः षित् (३।४।३०।।) इति 'श्रीसिव्हेश०' सूत्रेण षित् क्यङ् । 'लोहितादिडाजभ्य: क्यष्' [३।१।१३।।] इति 'पाणिनीय' सूत्रेण च क्यष । 'क्यो न वा' (३।३।४३।।) इति 'श्री सिव्हे०श०' सूत्रेण 'वा क्यषः' [१।३।९०॥] इति 'पाणिनीय' सूत्रेण चाऽत्मनेपदे शानच् । अथवा श्यामानीवाऽऽचरन्तीति श्यामायमानानि, आत्मनेपदम्, तत आनश्, इति व्युत्पत्ती 'श्रीसि०हेश०' 'क्यङ्' (३।४।२६॥) इति सूत्रेण क्यङ्, तत आनशः, 'कर्तुः क्यङ् सलोपश्च' [३।१।११॥] इति 'पाणिनीय' सूत्रेण क्य ले तत: शानच् । वनानि । पश्यतीति पश्यन्" शतृशानौ तितेवत्" इति परस्मैपदे शतृप्रत्ययः । सन् । ययौ-जगाम ॥
वाच्यपरिवर्तनं त्वेवम् - तेन पल्वलोत्तीर्णवराहयूथान्या[वा]सवृक्षोन्मुखबहिणानि मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यता (सता) यये ॥
स दिलीपः प्रत्यावर्तमानः सन्ध्यागमे पल्वलेभ्यो निर्गतानि शूकरयूथानि निशायापनार्थं चाऽऽवासवृक्षोन्मुखं च गच्छन्तो बर्हिणो(णा)श्च शष्पसाम्येषु सुखं स्थित्वा विश्राम्यमाणान् मृगान् च पश्यन् सन् दृष्ट्वा एतेषां मलिनिम्ना प्रदोषान्धकारेण श्यामायमानानि वनानि पश्यन् वशिष्ठाश्रमं प्रति जगाम, इति सरलार्थः ॥१७॥
आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः । उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥१८॥
आपीनेति । गिरति इति 'गृत्-निगरणे'इतिधातोः 'गो गृष् च' 'उणादि' ॥६४९॥ इति 'श्रीसि०हे०श०सूत्रेण गृषादेशे तिप्रत्यये च गृष्टिः । गृह्णाति सकृत् गर्भमिति वा ग्रधातोः तिच्प्रत्यये पृषोदरादित्वा'त्पाणिनीय' मते गृष्टिः । सकृत्प्रसूतिका गौः । “गृष्टिः सकृत्प्रसूतिका" इति हैम:' । 'सकृत्प्रसूता गौः गृष्टि'रिति हलायुधः । इन्दतीति इन्द्रः, नराणामिन्द्रः नरेन्द्रः । उभौ-यथाक्रमम् । आप्यायते स्मेत्यापीनम्, आपूर्वात् 'ओप्यायैङ्-वृद्धौ' धातोः क्ते प्यायः पीत्वे तस्य नत्वे चाऽऽपीनम् । 'आङोऽन्धूधसोः' (४।१।९३।।) इति 'श्रीसिहे०श०' सूत्रेण 'प्याय: पी' [६।१।२८॥] इति 'पाणिनीय' सूत्रेण च प्यादेशः । 'डीयश्व्यैदितः क्तयोः' (४।४।६१॥) इति 'श्रीसिव्हे०श०' सूत्रेण 'श्वीदितो १. अभि० चि० चतु० १२६८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org