________________
अनुसंधान-२६
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥१७॥
स पल्वलेति । यद्यपि नानाशक्यतावच्छेदकधर्मत्वे शक्तौ सन्देहः, तथाऽपि शक्यतावच्छेदकतावच्छेदकैक्ये न शक्तौ सन्देहः इति नैयायिक- निष्कर्षः । एवं च तच्छब्दस्य बुद्धिस्थत्वोफ्लक्षिततत्तद्धर्मावच्छिन्ने शक्तत्वेन शक्यतावच्छेदकतावच्छेदकरूपस्य उपलक्षणीभूतबुद्धिस्थत्वधर्मस्यैकत्वेन तत्पदशक्तौ न सन्देहः । अत्र तच्छब्देन दिलीपत्वस्य बुद्धिस्थत्वात् तच्छब्देन दिलीप एव ग्राह्यः । स दिलीपः ।
उत्तीर्यन्ते स्मेति उत्तीर्णानि । वरायाऽभीष्टाय मुस्तादिलाभायाऽऽहन्तिखनन्ति भूमिम् इति वराहः, आयूर्वात्(हन्) धातोः 'ड:' । “शूकरे स्त्रियां ङीप्, यज्ञवराहाख्ये, विष्णोरवतारभेदे पुं० पर्वतभेदे, मस्तके, शिशुमारे, वाराहीकन्दे, भानभेदे, द्वीपभेदे च" । वराहाणां यूथानि वराहयूथानि । पल्यतेऽसाविति 'पल्गतौ' पल्धातोः 'शमिकमिपलिभ्यो वलः' ॥४९९॥ इति औणादिके बले पल्वलः पुंक्लीबः । “वेशन्तः पल्वलोऽल्पम्" इति हैमः' । अल्पं-सरः । पल्वलेभ्योऽल्पजलाशयेभ्यः उत्तीर्णानि-निर्गतानि वराहयूथानि येषु तानि पल्वलोत्तीर्णवराहयूथानि । बर्हाणि सन्ति येषां बर्हिणः । "मयूरो बर्हिणो बी इत्यमरः । फलबर्हाभ्यामिनच् प्रत्ययो वक्तव्यः । आ समन्ताद् वसन्ति लोका येषु ते आवासाः । आवासानां वृक्षाः आवासवृक्षाः । उत्-ऊर्ध्वं मुखं येषां ते उन्मुखाः । आवासवृक्षाणां उन्मुखा बहिणो येषु तानि आवासवृक्षोन्मुखबर्हिणानि ।
निशादाः बालतृणानि शष्पाणि विद्यन्ते एषु ते शाद्वलाः । 'नडशादाद्वलः' (६।२।७५॥) इति 'श्रीसि०हे०श०' सूत्रेण ङित्वलप्रत्ययः 'नडशादाद व(ड्व)लच् [४।२।८८॥] इति 'पाणिनीय' सूत्रेण ड्वलचि [शाद्वलः ।] "शाद्वलः शादहरिते शादः कर्दमशष्पयोः" इति विश्वः । “शष्पकर्दमयोः शादः" इति शाश्वतः । अध्यास्यन्ते स्मेति अध्यासिताः । मृग्यन्ते व्याधैरिति मृगाः । मृगैः अध्यासिताः शाद्वलाः येषु तानि मृगाध्यासितशाद्वलानि ।
___ वराहबहिणशष्पादिमलिनिम्नाऽश्यामानि श्यामानि भवन्तीति-श्यामाय१. अभि० चि० चतु० १०९५ । २. अम० द्वि० सिंहादिवर्गे - १०४७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org