SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ September-2003 यस्याऽऽदेशवशंवदा मरुधरा[:]श्रीगूर्जरत्रा बृहद्बुन्दी-नागपुराजमेरु-सरसावन्तीश्वराद्या नृपाः । चक्री शक्रपराक्रमः कलियुगेऽप्यासीदसीमावनीजम्भारातिरदम्भसम्भवरतिः श्रीकुम्भकर्णस्ततः१८ ॥२९॥ साम्राज्ये नयति स्वयं रसमयं पुष्णात्यनुष्णैः परं गोभिः शोभितमण्डलैः कृतयुगं पीयूषरश्मेरिव । तस्याऽऽसीद् द्विजगोधने कुवलये स्फातिस्तथाऽत्यद्भुता नक्षत्रप्रवरे वणिग्जनगणेऽप्याविर्बभूवुः श्रियः ॥३०॥ प्रासादा व्यवहारिभिर्भगवतां निर्मापिताश्चाऽऽर्हतां श्रीमत्कुम्भलमेरु-राणपुरयोर्यस्य प्रसादोदयात् । तेषां मूर्धनि साम्प्रतं विजयिनी कीर्तिर्नरीनृत्यते तस्य श्रीधरणीधवस्य मधुरा धौतध्वजव्याजतः ॥३१॥ चैत्यार्थं वृषभप्रभोर्भगवातो]दत्ते स्म चित्ते शुचिः श्रीमद्राणपुरे स राणसविता क्षेत्रद्वयं शासने । काश्मीरस्य च टङ्ककं प्रतिदिनं स्वीयं जिना कृते तेनाऽस्य त्रिदिवे सुरैरपि यश:सौरभ्यमभ्यस्यते ॥३२॥ बभूव भूवल्लभसेव्यपादस्तत्सूनुरन्यूनपराक्रमश्रीः । श्रीराममल्लः १९ प्रतिमल्लरूपो म्लेच्छेशदोर्दण्डविखण्डनाय ॥३४(३३)॥ तत्पट्टे स्पष्टकान्तिर्विशदतरगुणग्रामसङ्ग्रामसिंहः २० प्रत्यर्थिक्ष्मापकुम्भिप्रहतगलदसृग्-वाहसोत्साहसिंहः । आकण्ठं यस्य खड्गासमयमभगिनीनीरपूरे निमग्नः सोत्कण्ठं शत्रुरुच्चैरमरमृगदृशालिङ्गिते कण्ठपीठे ॥३५(३४)॥ समुदियाय ततोऽभ्युदयं वहन्नुदयसिंहमहीहृदयेश्वरः २१ । सहृदये हृदयं सदयं वदत् समुदये द्विषतां तु तदन्यथा ॥३६(३५)। तेन स्तेनहता कृता वसुमती स्वर्णादिभिः संस्कृता चातुर्वर्ण्यमिहोत्तमर्णमभवत् सज्जातरूपश्रिया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy