________________
36
अनुसंधान-२५
तत्र तर्क ऊहापरनामा विचार इति यावत् । कालत्रयवत्तिनोः साध्यसाधनयोरविनाभावसम्बन्धव्याप्त्या वाच्यवाचकविषयाविष्करणम्, इदमस्मिन् सत्येव भवतीत्याकारं वेदनं, तर्क ऊह इति संज्ञान्तरं लभते । ये तु ताथागता ऊहस्य प्रामाण्यं नोहांचक्रिरे, घटपटादिरित्यपोहमात्रम्, तेषामशेषशून्यत्ववादस्य निरवकाशत्वापत्तेः ॥ आः ! किमिदमकाण्डकूष्माण्डाडम्बरोड्डामरमभिधीयते ?। तावच्छृणु, श्रावयामि ।
तर्कस्तावदनुमानप्रामाण्यस्य प्राणाः । अनुमानं तु प्रत्यक्षप्रमाणप्रामाण्यप्राणाः ।
प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाश्च कस्यचित् ॥ इत्याहुः ॥
ऊहस्तावत् सामान्यविशेषात्मकवस्तुनः सम्बन्धालम्बनम् । तैस्तु प्रमाणज्ञानविनाकृतैः पदार्थापोहः प्रोच्यते । अत एवाऽयमलब्धपरमार्थः शून्यवादी प्रसिद्धः । ऊहसिद्धिरित्यनुमानविशेषलक्षणं, सामान्यलक्षणं तु साधनात् साध्यविज्ञानमनुमानं प्रसिद्धमिति ॥
आगमो ह्याप्तवचनमाप्ति दोषक्षयं विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद् हेत्वसम्भवात् ॥
इत्याप्तवचनादाविर्भूतमर्थसंवेदनमागमः । उपचारादाप्तवचनं च । अभिधेयं वस्तु यथावस्थितं यो जानीतेऽवञ्चक: स आप्तः । स च द्वेधा- लौकिको लोकोत्तरश्च । लौकिको जनकादिः । लोकोत्तरस्तु तीर्थकरादिः । इति कालत्रयप्रमातृप्रवक्तृप्ररूपितस्यागमस्य सिद्धिः ॥ प्रमाणसङ्ख्या-विप्रतिपत्तिरपास्ता ॥
अथ प्राचीनोत्तराकारपरित्यागोपादानेनानुगतप्रतीत्या, तस्य विषयश्च सामान्यविशेषाद्यनेकात्मकं वस्तु, ह्यर्थक्रिया सामर्थ्याऽन्यथाऽनुपपत्तेः । सामान्य द्विप्रकारं-तिर्यगूर्वतासामान्यभेदात् । गोत्र१साधारणरजातित्वात् ॥ विशेषोऽपि द्विरूपो गुणः पर्यायश्च । ज्ञानादिः सहभावी गुणः । सुखदुःखनरनारकादिः क्रमभावी पर्यायः । इति निरस्ता तद्विषयविप्रतिपत्तिः ॥
यत् प्रमाणेन साध्यते तदस्य फलम् ॥ नैगम १ सङ्ग्रह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढ ६ एवम्भूताः ७ सप्त नयाः ॥ अस्य नयस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org