________________
September-2003
उत्पन्ने ज्ञाने विशदत्वमेव न त्विन्द्रियतृप्तिः । अस (श) नायोदन्ययोराहारेणैव तुष्टिः । ज्ञानं ह्यात्मगुणः, आहारसंज्ञा तु शरीरस्य । क्षुधोदन्ये हि वेदनामुत्पादयतः । शातावेदनीयशेषमस्तीति चेत् । अतो वेदनीयान्तर्भूते एते, नैव मोहनीयकर्मप्रकृती । इति केवलिभुक्तिः ॥
६
स्त्रीवेदमजितं कर्म, स्त्रीपुंसावात्मकर्मक्षये हि मुच्येते । आत्मा ह्युभयत्र समान एवेति स्त्रीमुक्तिः ॥
महाव्रतिनां हि द्वेधा नयः निश्चयो व्यवहारश्च । व्यवहारनयः समवसरणादिभिर्जिनैरपि स्वीकृतः । व्यवहारनये हि प्रतिष्टार्थं भवत्प्रव्रजितादिभिर्वस्त्रप्रावरणमाद्रियते गुरुभिर्न । कोऽयं गुरुशिष्यन्याय: ? । छद्मस्थैस्तु तीर्थंकरातिशयस्पृहां तु स्वप्नेऽपि दुर्लभ्या । व्रीडापदं द्युभयत्र समानमेवेति सिद्धा वस्त्रप्रतिष्ठा ।। इति प्रस्तावागताः प्रकटं दिक्पटाः परिचये पर्यनुयोज्याः || अथाऽस्पष्टं परोक्षम् । स्मरण १ प्रत्यभिज्ञान२ तर्का३ ऽनुमाना ४ गम ५ भेदतस्तत् पञ्चप्रकारम् । तत्र नैयायिकाः स्मरणज्ञानं प्रमाणाङ्गं नाभिमन्यन्ते । तन्मते ज्ञानमर्थजं, स्मरणं त्वविद्यमानस्यैव पदार्थस्य । तत्तत्संस्कारप्रबोधादुद्भूतमनुभूतार्थगोचरं तदित्याकारं वेदनं स्मरणम् । यथा-स देवदत्त इति । तत्तीर्थकरबिम्बं च । ननु त्वन्मतेऽपि अनुमानमविनाभावभावितधूमधूमध्वजयोः पूर्वानुभवस्मरणादेव प्रमाणमनुमानम् । अप्रामाणिकस्मरणसन्दर्शित- स्याऽनुमानाङ्गस्य स्वीकारः कथं युक्तियुक्तः स्यादिति । परं पूर्वानुभूतसाधनादविद्यमानस्यैव साध्यस्य वह्निमत्त्वादेः परिज्ञानम् । तस्यापि कालान्तरे क्षेत्रान्तरेऽपि प्रत्यक्षीकरणार्हत्त्वाददोषः । एवं तत्तत्संस्कारप्रबोध:५८ साधनं, पूर्वानुभवसंवेदनं साध्यं सिद्धमनुमानाङ्गमिति ॥
-
Jain Education International
तत्र प्रत्यभिज्ञानं ह्यनुभवस्मरणसाधनाद्यदभिज्ञानं शबलशाबलेयादि परिणामसामान्यवृत्त्या सर्वत्र गोत्वविषयं स एवाऽयं जिनदत्त' इत्यादि । यथा चैत्राभिज्ञानान्मैत्रोऽपि साध्यते ॥ वैशेषिकोपमानं तु गोसदृशो गवय इति । तथा गोविसदृशो महिष इत्यपि स्यात् । नालिकेरद्वीपवासिनो हि द्वयमप्यप्रसिद्धमिति दुर्दुरूढकण्टकोद्धारः ॥
१. तदित्यतीतार्थग्राहिणी प्रतीति: स्मृतिः ॥
35
For Private & Personal Use Only
www.jainelibrary.org