SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ September-2003 शब्दब्रह्मशरीरेऽनेकान्तात्माऽस्ति साक्षिणी रूपे । हिमकरदिनकरनाड्या-विव रेखे निर्भरे स्फुरतः ॥२८॥ युगादिदेवस्य शिवस्य नन्दिनी ब्राह्मीति विश्वप्रथिता सरस्वती । सौन्दर्यसीमा कमला च सुन्दरीत्यवाप रेखामिषतोऽर्हणामिह ॥२९॥ नाभिप्रिया कुण्डलिनी भवात् शिवात् जाते सुरेखे सुसमे सुसङ्गते । एकान्तमानोद्धतबुद्धये स्थिरास्थिरप्रमाणप्रगुणे इमे स्तुमः ॥३०॥ संसारे श्री-सरस्वत्यो रेखा प्राप्ता पवित्रिता । यत्त्यक्तमङ्गिनं सर्व-तीर्थार्णासि पुनन्ति न ॥३१॥ .. द्वाविमौ पुरुषौ लोके लब्धरेखौ मतौ मम । । अर्थितो यः करोत्येव यश्च नार्थयते परम् ॥३२॥ गङ्गासिन्धू च पाविन्यौ द्वयो रेखे सतां मते । कार्यं विनोपकारी यो यश्च नापनुते कृतम् ॥३३॥ स्वर्गापवर्गयोर्मार्गों द्वावेव प्राञ्जलौ स्मृतौ । श्राद्धधर्म-यतिधर्मी प्राप्तरेखौ चराचरे ॥३४॥ अवश्यं नश्वरं सर्वं देहगेहधनादिकम् । ध्रुवत्वे धर्म-यशसोरेव रेखे निरीक्षिते ॥३५।। स्वात्मा देवः कर्म दैवं रेखे सूनृतवर्मनः । स्वातन्त्र्यं सर्वसन्तोषो रेखे ऐश्वर्यसम्पदः ॥३६॥ मन्ये सुखे च दुःखे च परां रेखां श्रिता बु(ब) भौ । स्निग्धैर्मुग्धैर्विदग्धैर्यः संयोगो विरहश्च यः ॥३७॥ पीयूष-कालकूटे च द्वे रेखे मुनिभिर्मते । एका सद्दर्शनप्राप्तिः परा तदवधीरणा ॥३८॥ द्वौ रसेन्द्रौ द्वयोरेव रेखाप्राप्तौ बभूवतुः । शृङ्गारो गिरिजाकान्ते शान्तः पारा(र)गते विभौ ॥३९|| धर्मशास्त्रोपनिषदा-मिदं रेखाद्वयं ध्रुवम् । परोपकारः पुण्याय पापाय परपीडनम् ॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520525
Book TitleAnusandhan 2003 07 SrNo 25
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages116
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy