SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 46 अनुसंधान-२३ कामं कामाशोत्थैररुणिममिलितैः प्रग्रहै: सन्दधानैभूषां भावं जनानां सदसि किशलगन्धोद्धर्वदेशेऽवदातैः । वर्णैः पुष्पाग्यमाल्यस्थितमिति विलसद्विभ्रमस्य प्रदानात् यत्पादैः पारिजातक्षितिरुहमहिमाहानिमानीयते हि ॥२२॥ पादद्वन्द्वं पदीयं कजमिव शुशुभे भूरिसौरभ्यपृक्तं सन्मूर्ध्यारोहणाहँ शुचिविकचतया चारुरुक् चीय[मानम्?]। प्रोच्चैः प्रेम्णा प्रणामप्रवणतम इह प्राप्नुवन्ति प्रमोदं प्रौढं दीप्रप्रकारं प्रसृमरभविकाः प्राणिनः प्रेक्षयाढ्याः ॥२३॥ येषां प्राज्ञप्रभौघान् प्रियतमचरणान् क्षमाप्रणम्यान् प्रणम्य प्राज्यप्रौढप्रमादप्रतिभयनिधनप्राप्तदीप्र[प्र]तापान् । येषां पादारविन्दं सबलमपि भियं प्रापयत्पुष्पकेतु (तुं?) भीरुं वा भूम्यधीशं क्षतरुचिकमलालिङ्गनत्वेन नित्यम् ॥२४॥ विष्वक्सेनाय मातं प्रमथपतितुलं शङ्करत्वात् क्षमापा (?) उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीमते निष्ठितार्थे । भक्तैवं संस्तुतास्ते जिनशतकमहाकाव्यनाम्नः किलाद्यैः पादैः कारुण्यपुण्यास्त्रिजगति गुरवश्चारुनिःश्रेयसाप्त्यै । कुर्वन्तु श्रीफलाप्ति प्रणिपतनकृतं नालिकेरद्रुवद् द्राग् नित्यं सत्यं गुणौधं वपुषि निद[ध]ता भ्राजमाने(नैः?) कलाभिः ॥२६।। इतिश्री ६ राजपालपण्डितशिष्य गणिरविसागरसमस्थित जिनशतक महाकाव्य प्रथमपरिच्छेदाद्यपदगुरुवर्णनं संपूर्णम् ॥ शुभं भवतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520523
Book TitleAnusandhan 2003 04 SrNo 23
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy