SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ April-2003 35 यस्योपकण्ठं मुमुचुनितान्तं न नीलकण्ठाः स्वसुहृद्धनस्य । अनीहमाना विरहं कदापि यदुत्तमीया नियतैव मैत्री ॥१९॥ न सस्मरुविन्ध्यगिरिं द्विपेन्द्रा यं प्राप्य तद्भूतबृहत्सुखाप्तेः । विस्मारकं स्याच्च चिरन्तनस्य प्रत्यक्षसौख्यं हि निरन्तरायम् ॥२०॥ उपस्थिता निर्जररामरामा क्रीडां विधातुं प्रतिवल्लभं स्वम् । इतस्ततो भ्रान्तिमिवाशु नेतुं केलीच्छया यस्य गुहाः सिषेवे ॥२१॥ द्राक्षीच्च मा मामपि क: सलज्जा-मितीव कृष्णाम्बुदकैतवेन । यदीयकुण्डे जवनी विधाय समन्ततः स्नाति सुपर्वकान्ता ॥२२।। यत्र स्थितानां विलसन्मणीनां स्थितिर्बभूव क्षितिभृत्किरीटे । सम्यक् तदाहुर्गरिमाम्बुराशौ यत्संश्रितानां पदमग्र्यमेव ॥२३॥ मद्वर्गपक्षक्षिप एष यस्मात् कुर्वेऽहमिन्द्रं तदधः प्रसह्य । उच्चस्तरैः शृङ्गगणैः परीत इत्यूर्ध्वमेधिष्टतरां गिरिर्य : ॥२४॥ मुमुक्षया संसृतिदुःखपंक्तेः कल्याणमाप्तुं व्रतिभिः सिषेवे । यः प्राज्यराज्यान्वितभूमिभृद्वा सम्पत्तिमूरीचकृवाननल्पाम् ॥२५॥ शैलाधिराजस्त्वयमेव विश्व इत्युज्जयन्तः प्रथितः स चक्रे । श्रीनेमिनाथेन पुरैव नीत्वा राजीमती स्त्रीकृपया विमुक्तिम् ॥२६॥ इति पण्डितचक्रचक्रवत्ति पं. श्री राजपालगणिशिष्यरविसागरगणिना कृतं संक्षेपेण कुमारसम्भवरीत्या श्रीगिरिनारवर्णनं सम्पूर्णम् ॥ श्रीरस्तु संघवर्गसा(स्य)॥ _ (२) कश्चित् प्रत्यानयति मनुजो यः प्रियं मामकीनं सर्वाभीष्टं विभवमतुलं तं प्रतीहार्पयामि । व्यक्तीचक्रे सहृदयमनःसंश्रितो वाग्विलासोराजीमत्याऽभिमतसुतयेत्युग्रसेनेश्वरस्य ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520523
Book TitleAnusandhan 2003 04 SrNo 23
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy