________________
अनुसंधान-२१
(७) . ॐ अहँ अनादिविश्वमनादिरात्मा, अनादिः कालोऽनादि कर्म, अनादिः संबन्धो देहिनां देहानुगताननुगतानां, क्रोधाहङ्कारच्छद्मलोभैः संज्वलनप्रत्याख्याना वरणानन्तानुबन्धिभिः शब्दरूपरसगन्धस्पर्शेरिच्छानिच्छापरिसङ्कलितैः संबन्धोऽनुबन्धः प्रतिबन्धः संयोगः सुगमः सुकृतः सुनिवृत्तः सुतुष्टः सुपुष्टः सुप्राप्तः सुलब्धो द्रव्यभावविशेषेण अहँ ॐ ॥ (३७-२)
(८) ___ॐ अहँ कर्मास्ति, मोहनीयमस्ति, दीर्घस्थितिरस्ति, निबिडमस्ति, दुश्छेद्यमस्ति, अष्टाविंशतिप्रकृतिरस्ति, क्रोधोऽस्ति, मानोऽस्ति, मायास्ति, लोभोऽस्ति, संज्वलनोऽस्ति, प्रत्याख्यानावरणोऽस्ति, अप्रत्याख्यानावरणोऽस्ति, अनन्तानुबन्ध्यस्ति, चतुश्चतुर्विधोऽस्ति, हास्यमस्ति, रतिरस्ति, अरतिरस्ति, भयमस्ति, जुगुप्सास्ति, शोकोऽस्ति, पुंवेदोऽस्ति, स्त्रीवेदोऽस्ति, नपुंसकवेदोऽस्ति, मिथ्यात्वमस्ति, मिश्रमस्ति, सम्यक्त्वमस्ति, सप्ततिकोटाकोटिसागरस्थितिरस्ति, अहँ ॐ ॥ (३८-१)
(९) ॐ अहँ कर्मास्ति, वेदनीयमस्ति, सातमस्ति, असातमस्ति, सुवेद्यं सातं दुर्वेद्यमसातं, सुवर्गणाश्रवणं सातं दुर्वर्गणाश्रवणमसातं, शुभपुद्भलदर्शनं सातं दुष्पुद्गलदर्शनमसातं, शुभषड्रसास्वादनं सातं अशुभषड्रसास्वादनमसातं, शुभ-गन्धाघ्राणं सातं अशुभगन्धाघ्राणमसातं, शुभपुद्गलस्पर्शः सातं अशुभपुद्गलस्पर्शोऽसातं, सर्वं सुखकृत्सातं सर्वं दुःखकृदसातं, अहँ ॐ ॥ (३८-२)
(१०) ॐ अर्ह सहजोऽस्ति, स्वभावोऽस्ति, संबन्धोऽस्ति, प्रतिबद्धोऽस्ति, मोहनीयमस्ति, वेदनीयमस्ति, नामास्ति, गोत्रमस्ति, आयुरस्ति, हेतुरस्ति, आश्रवबद्धमस्ति, क्रियाबद्धमस्ति, कायबद्धमस्ति, तदस्ति सांसारिक: संबन्धः अहँ ॐ ।। (३८-२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org