________________
38
July-2002 ततः प्रथमत एवोत्पत्रमात्रस्य बालस्य स्तनाभिलाषदर्शनादनुमीयते देहातिरिक्त: परलोकयायी जीवोऽस्ति, येन पूर्वभवे क्षुदपनोदकारी स्तनो दृष्टः सम्प्रति स्मरणविषयीकृत इति ।
मैवम्, भूतस्वभावादेव स्तनादानाभिलाषस्योपपत्तेः । अयमेव हि भूतानां स्वभावो यत् प्रथममननुभूतमपि किञ्चित् स्वात्मन उपष्ठ(ष्ट)म्भकारकमुपाददते । न च स्वभावेऽपि पर्यनुयोगो घटते ।
'अग्निर्दहति नाऽऽकाशं कोऽत्र पर्यनुयुज्यते ॥' इति वचनात् । विचित्रकार्यकारितया च भूतस्वभावस्याऽपि विचित्रत्वात् ।
अनेन प्रतिनियतालब्धवित्तलाभ-लब्धवित्तापहारवैचित्र्ये नियामकं पूर्वभवार्जितमेवाऽदृष्टं स्वीकर्तव्यं, तस्वीकारे च कर्तारमन्तरेण तदनुपपत्तेस्तत्कर्तुरात्मनोऽपि पूर्वभवेऽस्तित्वमङ्गीकर्तव्यमित्यपि निरस्तम् । भूतानामेव तथास्वभावत्वेनाऽलब्धवित्तलाभादिवैचित्र्योपपत्तेः । उक्तं च - 'जलबुद्बुदवज्जीवा' इति । यथैव हि सरित्समुद्रादौ नियामकादृष्टं विनाऽपि स्वभावसामर्थ्याद् विचित्रा बुबुदाः प्रादुःष्यन्ति तथा प्राग्भवोपार्जितादृष्टमन्तरेणाऽपि अलब्धवित्तलाभादिवैचित्र्यभाजो जीवा इति । अपि चैतन्यविशिष्टकायमात्ररूपा भवन्ति इति नाऽस्ति परलोकगाम्यात्मा, तदभावाच्च नारकत्वाद्यवस्थारूपस्य परलोकस्याऽप्यभाव एव। तदुक्तम्
'एतावानेव लोकोऽयं यावानिन्द्रियगोचरः' ॥ इति एवं च परलोकार्थं तपश्चरणाद्यप्यनुष्ठानमनर्थकम् । यदाह'तपांसि यातनाश्चित्राः संयमो भोगवंचने'ति ॥
अत्रोच्यते- यत् तावदवादि 'आत्मा प्रत्यक्षेण नोपलभ्यते घटादिवदिति', तदयुक्तम्; अवग्रहेहापायधारणानां स्वसंवेदनप्रसिद्धत्वेनाऽऽत्मनोऽपि प्रत्यक्षत्वात् । धर्मप्रत्यक्षत्वे धर्मिणोऽपि प्रत्यक्षत्वनियमात् । नहि रूपादिप्रत्यक्षादन्यत् घटादीनां प्रत्यक्षेणोपलम्भनमस्ति, न चाऽवग्रहादीनां स्वसंवेदनप्रसिद्धत्वमसिद्धम: विवक्षित-- नीलत्वलक्षणविषये नीलं विज्ञानमुत्पन्नं ममाऽऽसीदित्यादेरवग्रहादिविषयकस्मरणात् तत्सिद्धेः । न चाऽननुभूतविषयमपि स्मरणं, अतिप्रसक्तेः; अनुभवश्चैषां स्वसंवेदनेनैवेति कथं न स्वसंवेदनप्रसिद्धत्वम् ? ।
न चाऽवग्रहादिज्ञानानां स्वसंवेदनप्रत्यक्षत्वेऽपि न धर्मत्वं, सततं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org