SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 37 अनुसंधान-२० तस्मात् सुदृढमिदं यन्नाऽस्ति जीवः । ननु यो भूतव्यतिरिक्तं जीवं प्रतिषेधति स एव जीवः, जीवादन्यस्य . घटादेरिवाऽचेतनत्वेन प्रतिषेधकत्वायोगात्, इति चेत् __न, चैतन्यविशिष्टकायस्यैव परलोकगामिजीवप्रतिषेधकत्वात्, तदन्यसत्त्वे प्रमाणाभावात् । यत्तु 'जीवश्चेत् परलोकगामी न भवेत् तर्हि दानादिफलस्याऽभाव एव स्यात्, ततः प्रतिपद्यतां परलोकगामी जीव इति', तत् भस्मावगुण्डितपुरुषवचनवत् प्रश्नाननुरूपत्वादसङ्गतम् । तथा हि ___केनाऽपि प्रामाणिकेन कश्चिद् भस्मावगुण्डितशरीर: पृष्टो यथा-केचिद् वादिन आचक्षते-देवो नाऽस्ति, प्रमाणाभावात् । तत्र किमुत्तरम् ? स आह यदि देवो न स्यात् तर्हि धार्मिको देवार्चननिमित्तं पुष्पानयनाय कथमाराममगात् । न हीदं वाक्यं देवसाधकं, भ्रान्त्यैव तत्प्रवृत्त्युपपत्तेः । एवं दानादेरपि लोभ-मिथ्याज्ञानादित एव कैश्चित् प्रवतितत्वेन परलोकगामिजीवसाधकता दुरापास्ता। अथ स्मरणं ह्यनुभूतविषयं, अन्यथाऽतिप्रसङ्गात् । स्मर्यते च केनचित् पूर्वभवसम्बद्धं जन्म । ततोऽवश्यं तदनुभूतमिति सिद्धः परलोकगामी आत्मा इति चेत् । न । नहि पूर्वभवसम्बद्धजातिं स्मरन् कश्चिदुपलभ्यते येनैवमुच्यमानं मनो हरति विदुषाम् । न चाऽनुपलभ्यमानोऽपि कश्चिद् भविष्यतीति स्वीकरणीयं, वन्ध्यापुत्रस्वीकारप्रसङ्गात् । ननु बालकस्य प्रथमत एवोत्पन्नस्य स्तनदर्शनान्तरं स्तनादानाभिलाषो जायते । स चाऽभिलाषः पूर्वविवक्षितकारणदृष्टावेव दृष्टेषु कार्येषु तत्कार्यतया च ज्ञातेषु सत्सु पुनरपि कालान्तरे विवक्षितकारणदर्शनानन्तरमुपजायमानेन स्मरणेन विवक्षितकार्यार्थितया विवक्षितकारणादानविषयो जन्यते, नाऽन्येन । न चाऽसौ बालकस्य तदानीमसिद्ध इति वाच्यं, अभिलाषादेव प्रतिनियतविवक्षितकारणोपादानाद्यर्थे प्रवृत्त्यादिव्यवहारोपपत्तेः । यदुक्तम् -- तदृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणादभिलाषेण व्यवहारः प्रवर्तते ।।इति।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy