________________
98
July-2002
(शुद्ध करेली वाचना) श्रीनाभिनन्दनजिनोऽजितशम्भवेशौ देवोऽभिनन्दनमुनिः सुमतिजिनेन्द्रः । पद्मप्रभः प्रणतदेवसुपार्श्वनाथश्चन्द्रप्रभोऽस्तु सततं मम सुप्रभातम् ॥१॥ श्रीपुष्पदन्त-परमेश्वरशीतलो यः श्रेयान् जिनो विगतमानसुवासुपूज्यः । निर्दोषवाग्विमलविश्वजनीनवृत्तिः श्रीमानन्तभगवान् मम सुप्रभातम् ॥२॥ श्रीधर्मनाथगणभृन्नतशान्तिनाथ: कुन्थुर्महेशपरमार-विमारमल्लिः । सत्यव्रतेशमुनिसुव्रत सन्नमीह (मिश्च ?) नेमिः पवित्रभगवान् मम सुप्रभातम् ॥३॥ श्रीपार्श्वनाथपरमार्थविदन्तरेण श्रीवर्धमानहतमानविमानबोधः । युष्मत्पदद्वयमिदं स्म(श?)रणं ममास्तु कैवल्यवस्तुविशदं मम सुप्रभातम् ॥४॥
अज्ञात-कर्तृक अमृतधुन लिख्यते ॥ धरनपरधुकतधरसमरधुरनादधुः षिप्रसरचक्रनिसतंकखंडैः । सतषणीसूलउन्मादपरसादसुत छोहबलपरगचुकमारचंडैः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org