________________
अनुसंधान-१७.88
प्रतिपदनवविपदां पुनरुपैति मातापि निर्वेदम् ॥ -९.१०, पृ.१०८ २४. परस्मादुपकारो यः सोऽपि व्रीडावहः सताम् ।
तस्याप्रत्युपकारस्तु दुनोत्यन्तः पशूनपि ॥ -१०.२, पृ.११३ २५. सर्वथा कैतवं निन्द्यं प्रवदन्ति विपश्चितः ।
केवलं न विना तेन दुःसाध्यं वस्तु सिध्यति ॥ -१०.५, पृ.११६ २६. क्रूरः कृतोपकारः प्रत्यपकाराय कल्पते भूयः ।
विरचितपाशविनाशः प्रणिहन्ति विपाशकं सिंहः ॥ -१०.१६, पृ.१२५ अपकारं कुर्वाणैरुपकारः कोऽपि शक्यते कर्तुम् ।
संताप्य फलसमृद्धाः करोति धान्यौषधीस्तपनः ॥ -१०.१७, पृ.१२५ २८. नक्तं दिनं न शयनं प्रकटा न चर्या, स्वैरं न चानजलवस्त्रकलत्रभोगः । शङ्कानुजादपि सुतादपि दारतोऽपि, लोकस्तथापि कुरुते ननु चौर्यवृत्तिम् ॥
-७.३, पृ. ७९ २९. ऐहिकामुष्मिकान् क्लेशान्कुक्षिसौहित्यकाम्यया ।। . स्वीकुर्वनास्ति दुर्मेधाः कोऽन्यस्तस्करतो जनः ॥ -७.४, पृ.७९
सुधास्यन्दि-सूक्तानि १. निजभुजदण्डाभ्यां हि वणिजां द्रविणोपार्जनं मण्डनं न तु खण्डनम् ।-पृ. ९ २. प्रकृतिसुभगे पात्रे वेषो यदेव तदेव वा । - पृ.१२ ३. पुरन्ध्रीणां प्रेमग्रहिलमविचारं खलु मनः । -पृ.४१ ।। ४. सत्यं विषादशोकाभ्यां न दैवं परिवर्तते । -पृ.५० ५. सर्वथाप्यपारव्यसनकान्तारपतितेनापि प्रेक्षापूर्वकारिणा प्राणिना न विषादवैधुर्य
माधेयम् । पृ. ६४ ६. प्राणेभ्यो नापरं वस्तु प्रेमपात्रं वपुष्मताम् । -पृ.६६ ७. उपनता अपि हि विपदः प्रतिरुध्यन्ते देवतादर्शनेन । पृ.९० ८. अवतरति नभोमित्रे वसुधायां कस्य नानन्दः । -पृ.९९ ९. परस्मादुपकारो यः सोऽपि व्रीडावहः सताम् । -पृ.११३ १०. प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः । -पृ.११४ ११. क्रूरः कृतोपकारः प्रत्यपकासय कल्पते भूयः । -पृ.१२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org