________________
अनुसंधान-१६ . 18 सुविस्मिताम्भोजभरे स्वकस्वकादुत्थाय नीडात् प्रचलद् द्विजव्रजे । द्विजातिजातेन सुपठ्यमानऋगादिवेदे प्रसरत्प्रकाशे ॥९२॥ प्रणष्टपाटच्चरचक्रवाले विधीयमानाऽसमधर्मवृ(कृ)त्ये । मुक्तप्रमीले समजन्तुजातैर्जाते प्रभाते किल तत्र पूते ॥१३॥
इति प्रातवर्णनम् ॥ यदीयकान्तेः पुरत: सुधीभिनिरीक्ष्यते शीतमयूख एषः । प्रभाविहीनः किल पाडु(ण्डु)रच्छदच्छविर्न कस्यापि दृशोः प्रमोदकृत् ॥९४|| कवलयति कलापं तामसं यः करौघैभजति विकचभावं यं निरीक्ष्याऽब्जपंक्तिः । भवति जलतिनेमी येन तेजस्विनीयं स्पृहयति हृदि यस्मै सन्ततिर्मानवानाम् ॥१५॥ व्रजति निखिलजाड्यं क्षीणभावं च यस्माद् विषयहयरथाङ्गैः स्यन्दनो यस्य नित्यम् । अनिमिषपथपारं प्राप्तवान् श्रोणिसूतः प्रविलसति हि यस्मिन् प्रग्रहाणां सहस्रम् ॥९६।। बुधपरिवृढकाष्ठाभामिनीभव्यभालस्थलतिलकसमाभेऽम्भोजिनीप्राणनाथे । उदयमियति विश्वोद्योतके दीप्रभानौ प्रमुदितसमचक्रद्वन्द्वचित्तेऽतिवित्ते ॥९७॥
इति रविवर्णनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org