________________
अनुसंधान-१६ • 218 यकारे 'यथावद्धर्मप्रतिवेधशब्दः। रकारे रत्यरतिपरमार्थरतिशब्दः । लकारे लताछेदनशब्दः । वकारे वरयानशब्दः । शकारे शमथविपश्यनाशब्दः । षकारे घडायतननिग्रहणाभिज्ञज्ञानावाप्तिशब्दः । सकारे सर्वज्ञज्ञानाभिसंबोधनशब्दः । हकारे हतक्लेशविरागशब्दः । क्षकारे परिकीर्त्यमाने क्षणपर्यन्ताभिलाप्यसर्वधर्मशब्दो निश्चरति स्म ॥
इति हि भिक्षवस्तेषां दारकाणां मातृकां वाचयतां बोधिसत्त्वानुभावेनैव प्रमुखान्यसंख्येयानि धर्ममुखशतसहस्राणि निश्चरन्ति स्म ॥
तदानुपूर्वेण बोधिसत्त्वेन लिपिशालास्थितेन द्वात्रिंशद्दारकसहस्राणि परिपाचितान्यभूवन् । अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि द्वात्रिंशद्दारिकासहस्राणि । अयं हेतुरयं प्रत्ययो यच्छिक्षितोऽपि बोधिसत्त्वो लिपिशालामुपागच्छति स्म ॥
१. R प्रज्ञोपायं. २. R शिक्षयिष्यामि. ३. R "वैपुल्य° for “वैकल्य'. ४. R ऐरपथः for ऐर्यापथ:. ५. R °ध्वजवर" for °ध्वजबल'. ६. R तथासंभेद for तथता. ७. R परिज्ञान" for परिज्ञा'. ८. R भवतिभव for भवविभव'. ९. R प्रतिषेध for प्रतिवेध. १०. R. निग्रहषडभिज्ञ for "निग्रहणाभिज्ञ. ११. "भिलाष° for भिलाप्य'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org