________________
- अनुसंधान-१६ . 16 अलम्बनस्थापितरश्मिगूमा मुमुक्षुधामाग्रिमसामयोनिः । शीर्षाग्रसंस्थापितकुम्भकुम्भो विभासते सारसुधातिशुभ्रः ॥७९|| अनूचानपादा नृणां पूज्यपादाः क्वचिद्वाचकान् पाठ्यन्त्यग्रशास्त्रम् । कचिद्वाचकाः कोविदान् पाठयन्ति कचित् कोविदाः पाठयन्ति स्वशिष्यान् ॥८॥ कचिच्छब्दशास्त्रं कचिनामकोशः कचित्तर्कशास्त्रं क्वचित्तीर्थपोक्तिः । स्वयं भण्यते भाण्यते तत्त्वविद्भिः क्षमावद्भिरत्याहतस्वप्रमादैः ।।८१॥ कचिल्लेखयन्ति कचिद्वाचयन्ति 'क्कचिद् योजयन्ति क्कचिच्छोधयन्ति । नवीनाऽनवीनानि शास्त्राणि वाचंयमा यत्र शास्त्राब्धिमीना अमानाः ॥८२।।
इति चतुर्दशभिः काव्यरुपाश्रयवर्णनम् ॥ इत्याद्यनेकैः शुभवर्ण्यवस्तुभिः संपूरिते भूरिसुखश्रियां पदे । श्रीतातपादाम्बुजपूतरेणुके गुणाधिके श्रीमति तत्र पत्तने ॥८३||
इति चतुःषष्ट्या काव्यैः पत्तनवर्णनम् ॥ श्रीमत्तातक्रमकजयुगोपास्तिनिःशेषदक्षश्राद्धश्राद्धीजनसमुदयैः संभृताद्धर्मधाम्नः । सश्रीकाऽहम्मदनृमणिना वासितात् स्वस्य नाम्ना सश्रीकाऽहम्मद]नगरतो नामयाथार्थ्यभाजः ॥८४॥ आनन्दवृन्दसहितं विनयं प्रबर्ह स्नेहेन कञ्चकितगात्रलताभिरामम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org