________________
अनुसंधान-१६ • 14 कुरङ्गनाभीहिमवालुकां(कानां) सत्काकतुण्डोत्तमचन्दनानाम् । सकेसराणां शुभगन्धगर्भ'मर्हगुणां(णानां) पटलं चकास्ति ॥६६॥ यत्र श्रेयोऽवति वरमणीमण्डलैर्मण्डितक्ष्मश्चञ्चच्चामीकरजिनवरौक:कलापश्चकास्ति । निःशेषैनश्चयमसुमतां प्रोद्दलन् दृग्गतः सन् मुक्ताजालव्रजपरिलसज्जालकश्रेणिरम्यः ॥६७॥ यत्रेशानक्षितिधरसमुत्तुङ्गदेवाधिदेवावासश्रेणिः स्फुरति विहिता शिल्पिना साररत्नैः । किं कैवल्यत्रिदिवनिगमज्ञापने दीपपङ्क्तिर्यद्वा तिर्यग्-निरयकुगतिद्वाररोधार्गलेयम् ॥६८।। इति पञ्चभिः काव्यैः श्रीजिनमन्दिरवर्णनम् ॥
अथोपाश्रयवर्णनम् । यथायत्कुड्यदेशेषु बहिर्गतेषु विशेषतश्चित्रितसामयोनीन् । अत्यद्भुतानेकपदे निरीक्ष्य बिभ्यन्ति(?) साक्षात् करिणः प्रयान्तः ॥६९॥ यदीयकुड्यानि सुधाविलिप्तान्यहनिशं भान्ति सुपाण्डुराणि । विभावरीनायकमण्डलानि लवा यथा वा हिमवालुकानाम् ॥७०॥ यदीयकुड्येषु मनोरमाणां वातायनानां प्रविभान्ति वीथ्यः । वक्त्रेषु पाथोजभुवोऽम्बकानां व्योम्नः प्रदेशेषु यथा च भानाम् ॥७१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org